________________ 242 ] षडशीतिनाम्नि चतुर्थे कर्मग्रन्थे ___ (हारि०) व्याख्या-अस्याः केनाप्यभिप्रायेण सूत्रकारेण पदविवरणं न कृतम् तच्च यथावबोधमस्माभिः शास्त्रानुसारेण लिख्यते-तत्र सामान्येन पूर्वोक्ताः सप्तपञ्चाशदुत्तरभेदा बन्धहेतवो भवन्ति 57 / ततो / मिथ्यादृष्टेराहारकतन्मिश्रवर्जनात्पञ्चपञ्चाशदेव मन्तव्याः, तद्वजनं तु संयमवतस्तत्सद्भावादिति 55 ।तथा पूर्वोक्तायाः पञ्चपञ्चाशतो मिथ्यात्वपञ्चकऽपनीते सासादनस्य पञ्चाशद्रष्टव्याः 50 / सम्यमिथ्यादृष्टेस्तु परलोकगमनाभावात्कार्मणं औदारिकमिश्रं बैंक्रियमिश्रं च न संभवति. अनन्तानुबन्ध्युदयस्य चास्य निषिद्धत्वात् : अनन्तानुबन्धिचतुष्टयं च नास्ति अत एतेषु सप्तसु पूर्वोक्तायाः पञ्चाशतोऽपनीतेषु शेषास्त्रिचत्वारिंशदुत्तरभेदा भवन्ति 43 / तथाऽविरतस्य परलोकगमनसंभवात् पूर्वापनीतकार्मणौदारिकमिश्रवैक्रियभिश्रत्रये पूर्वोक्तत्रिचत्वारिंशति पुनः-प्रक्षिप्ते षट्चत्वारिंशद्भदा भवन्ति 46 / तथा देशविरतस्याप्रत्याख्यानादरणोदयस्य निषिद्धत्वादप्रत्याख्यानावरणचतुष्टयं तथा विग्रहगतावपर्याप्तावस्थायां च देशविरतेरभावात् कार्मणौदारिकमिश्रद्वयंत्रससंयमानिवृत्तत्वात् त्रसासंयमश्च न संभवति, अत एतानि पूर्वोक्तायाः षट्चत्वारिंशतोऽपनीयन्ते, ततः शेषा एकोनचत्वारिंश 'द्वन्धहेतवो भवन्ति / अत्राह, ननु देशविरतस्त्रसासंयमात्संकल्पजा देव निवृत्तो न त्वारम्भजादेः, तत्कथं सर्वोऽप्येषोऽपनीयते ? सत्यम् , किन्तु, गृहिणामशक्यपरिहारत्वेन सन्नप्यारम्भजत्रसासंयमो न विवक्षित इत्यदोपः / एतच्च शतकबृहचूर्णिमनुश्रित्य लिखितमिति नात्र स्वमनीषिका भावनीयेति / तथा प्रमत्तस्य पूर्वापनीतत्रसासंयमव्यतिरिक्तानामेकादशाविरतीनामभावात् प्रत्याख्यानावरणानां चाभावादेव आहारक द्विकसद्भावात् पूर्वोक्तायामेकोनचत्वारिंशति पञ्चदशकेऽपनीते द्विके च क्षिप्ते षड्विंशत्युत्तरभेदा भवन्ति 26 / तथाऽप्रमत्तस्य त्वनन्तरोक्तायाः षड्विंशतेर्लब्ध्यनुपजीवनेनाहारवेक्रियानारम्भकत्वाद्वै क्रियमिश्राहारकमिश्रद्वयेऽपनीते शेषाश्चतुर्विंशत्युत्तरभेदा भवन्ति 24 / तथाऽपूर्वकरणे त्वतिविशुद्धत्वाद्वैक्रियाहारकमपि न संभवत्येव, ततो क्रियाहारकद्विकेऽनन्तरोक्तायाश्चतुर्विंशतेर्मध्यादपनीते शेषा द्वाविंशतिर्भवति 22 / तथाऽनिवृत्तिवादरस्य तु हास्यादिषट्कस्यापूर्वकरण एव व्यवच्छिन्नत्वात् शेषाः संज्वलनाश्चत्वारः कषायाः, वेदत्रयम् , मनो 4 वचनौ 4 दारिकरूपा नव योगाः, एते षोडश भवन्ति 16 / यावदद्यापि वेदत्रयं संज्वलनत्रयं च नापगच्छति, तदपगमने तु यथासंभवो वाच्यः / तथा मूक्ष्मसंपरायस्य वेदत्रयक्रोधादित्रिकयोरनिवृत्तिवादर एव व्यवच्छिन्नत्वाच्छेषा नव योगाः संज्वलनलोभश्चेति दश भवन्ति 10 / तथा त्रयाणामुपशान्तादीनां योगप्रत्यय एव बन्धः, ततश्चोपशान्तक्षीणमोहयोः प्रत्येकं नवधा भवति, अष्टौ मनोवाचः औदारिककाययोगश्चेति 9 / तथा सयोगिकेवलिनस्तु योगः सप्तधा १-'दुत्तरभेदा लभ्यन्ते" इत्यपि / / २"०देरेवासौ" इत्यपि / 3 "मिश्रवैक्रियमिश्रसद्भावात्" इत्यपि /