________________ बन्धहेतवस्तेषामुत्तरभेदाश्च [ 251 यिकं 4 अनाभोगिक 5 मिति / तत्राभिग्रहेण इदमेव दर्शनं शोभनं नान्यद् इत्येवंरूपण कुदर्शनविषयेण निवृत्तमाभिग्रहिकम् यद्वशाबोटिकादिकुदर्शनानामन्यतमं दर्शनं गृह्णाति 1 / एतद्विपरीतमनाभिग्रहिकम् यदशात्सर्वाण्यपि दर्शनानि शोभनानीत्येवमीषन्माध्यस्थ्यमुपजायते 3 / आभिनिवेशिकं यदभिनिवेशेन निवृत्तम् , यथा गोष्ठामाहिलादीनाम् 3 / सांशयिकम् , यद्वशागगवदहदुपदिष्टेष्वपि जीवादितचेषु संशय उपजायते, यथा न जाने किमिदं भगवदुक्तं धमास्तिकायादि सत्यमुतान्यथेति 4 / अनाभोगिकं यइनाभोगेन निवृत्तम् , तच्चैकेन्द्रियादीनामिति 5 / तथा द्वादशविधाऽविरतिः / कथम् ? इत्याह-'मणइंदियअनियमो छकायव हो' इति पश्चानामिन्द्रियाणां षष्ठस्य च मनसः स्वस्वविषये प्रवर्तमानस्य यदनियमनं अनियन्त्रणम् / तथा षण्णां पृथिव्यप्तेजोवायुवनस्पतित्रसरूपाणां कायानां वधो-हिंसा इति / तथा कषायाः प्रागुफ्तशब्दार्थाः पञ्चविंशतिः / कथम् ? इत्याह-पोडश नव चेति / तत्र क्रोधमानमायालोभः प्रत्येकमनन्तानुबन्धि नोऽप्रत्याख्यानावरणाः प्रत्याख्यानावरणाः संज्वलनाश्च ततस्ते षोडश भवन्ति / तत्र पारंपर्यण भामनन्तमनुवघ्नन्तीत्येवं शीला अनन्तानुबन्धिना, उदयस्थानाममीषां सम्मक्वविघातकृत्त्वात् / तथाऽल्पमपि प्रत्याख्यानमावृण्वन्तीत्यप्रत्याख्यानावरणाः, तदुदये लेशतोऽपि प्रत्याख्यानानुत्पत्तेः / प्रत्याख्यानं सर्वविरतिरूपमावृण्वन्तीति प्रत्याख्यानावरणाः / तथा परीपहोपमर्गादिसंपाते चारित्रिणमपि सम् ईपज्ज्वलयन्तीति संज्वलनाः / पश्चानुपूर्व्या च स्वरूपमेतेषामेवम्-"जलरेणुपुढविपदयराईसरिसो चउव्वि हो कोहो / तिणिसलगाकटियसेलस्थंभोवमो माणो // 1 // मायावलेहिगोमुत्तिमिंदसिंगघणवंसमूलसमा / लोहो हलिदखंजणकदम किमिरागसारिच्छी // 2 // पक्खचउमासवच्छरजावजीवाणुगामिणो कमसो / देवनरतिरियनारयगासाहणहेययो भणिया॥३॥" इति तथा वेदनिकहास्यादिषट्करूपा नव नोकषायाः / ते च कषायसहचारित्वादुपचारेणेह कषाया इत्युक्ताः / तत्र वेदत्रिकं प्रागनिर्दिष्टस्वरूपम् / हास्यादिषट्कं हास्यरत्यरतिभयशोकजुगुप्सालक्षणम् / तत्र सनिमित्तमनिमित्तं वा यद्धसनं तद्धास्यम् / बाह्याभ्यन्तरेषु वस्तुषु प्रीती रतिः / तेष्वेवाप्रीतिररतिः / भयं त्रासः / परिदेवनादिलिङ्गः शोकः / सचेतनाचेतनेषु वस्तुषु व्यलीककरणं जुगुप्सा इति / योगाः पञ्चदश, ते च सर्वेऽपि प्राक् प्रतिपादितस्वरूपाः / 75 / / 76 // इदानीममूनेव बन्धहेतून गुणस्थानकेषु चिन्तयन्नाह 'पणपन्नपन्नतियछहिय चत्तउणवत्त छत्रउ दुगवीसा। 'मोलसदमनवनवसत्तहेउणो न उ अजोगिम्मि // 77 // - "चत्तिगुणचत्तः" इत्यपि पाठः /