________________ 250 ] षडशीतिनाम्नि चतुर्थे कर्मग्रन्ये हेतवश्चत्वारः / एषां च मिथ्यात्वादीनां 'क्रमेण' परिपाट्या इति संबन्धः / पञ्च-द्वादश-पश्चविंशति-पञ्चदशसंख्या भेदा भवन्ति / एते च मीलिताः सप्तपश्चाशद्वन्धहेतूत्तरभेदाः / इति गाथार्थः / / 74 / / एतानेव विवृण्वन्नाह (मल०) 'बन्धस्य' सामर्थ्याज्ज्ञानावरणीयादिकर्मबन्धस्य मूलहेतवश्चत्वारः / के ते 1 इत्याह-मिथ्यात्वाविरतिकषाययोगाः / तत्र मिथ्यात्वं विपरीतावबोधस्वभावम् / अविरतिः सावद्ययोगेभ्यो निवृत्त्यभावः / कषाययोगाः प्राङ्निरूपितस्वरूपाः / नन्वन्यत्र प्रमाोऽपि बन्धहेतुरभिधीयते, तदुक्तम्-"मिथ्यात्वाविरतिप्रमादकषाययोगा पन्धहेतवः" इति / स कथमिह नोक्तः 1. उच्यते, कार्मग्रन्थिकैर्मद्यविषयरूपस्य तस्याविरतावेवान्तर्भावो विवक्षितः कषायश्च पृथगेवोक्तः / वैक्रियारम्भादिसंभवी तु प्रमादो योगग्रहणेनैव गृहीत इत्यदोषः / . अमीषामेवोत्तरभेदानाह-'पंच' इत्यादि / मिथ्यात्वस्योत्तरभेदाः पञ्च, अविरतेादश कषायाणां पञ्चविंशतिः. योगानां पञ्चदश / / 74H / एतानेव स्वरूपतः कथयन्नाह ★आभिग्गहियं अणभिग्गहं च तह अभिनिवेसियं चेत्र / संसइयमणाभोगं मिच्छत्तं पंचहा एवं // 75 / / बारसविहा अविरई मणइंदियअनियमो छकायवहो। सोलस नव य कसाया पणुवीसं पन्नरसजोगा // 76 // (हारि०) व्याख्या-आभिग्रहिकं दीक्षितानाम् 1 / अनभिग्रहं चेतरेपाम् 2 / तथाऽऽभिनिवेशिकं गोष्ठामाहिलादीनाम् 3 / सांशयिकं जिनोक्ततत्त्वेषु संशयवताम् 4 / अनाभोगमेकेन्द्रियादीनाम् 5 / मिथ्यात्वं पञ्चधा 'एवं' इत्येवंप्रकारमिति |7|| अर्थ द्वितीयगाथा व्याख्यायते-द्वादशविघाऽविरतिर्भवति / कथम् ? इत्याह-मनश्चेन्द्रियाणि च मनइन्द्रियाणि तेषामनियमोऽनियन्त्रणमिति समासः / तथा षट् च ते कायाश्च पृथिव्यादयः तेषां च वधोहिंसेति समासः / तथा षोडश नव च कषायाः प्रसिद्धस्वरूपोः कियन्तो मीलिता भवन्ति ? इत्याह-पञ्चविंशतिः / तथा पञ्चदश योगाः प्राक्प्रतिपादितस्वरूपोः ।इति गाथाद्वयार्थः // 76 / / अथ बन्धहेतूत्तरभेदान् गुणस्थानकेषु यथासंख्येन योजयन्नाह(मल०) गाथाद्वयम् / मिथ्यात्वमुक्तस्वरूपम् / 'एवम्' अमुना प्रकारेण पञ्चधा' पञ्चप्रकारम् / केन च प्रकारेण 1 इत्याह-आभिग्रहिकं 2 आनाभिग्रहिकं 2 च तथाऽऽभिनिवेशिकं 3 चैव सांश★उक्तगाथा द्वयमध्येऽन्यगाथाद्वयं हस्तलिखितमूलगाथाप्रतावधिकतयेत्यं दृश्यते तद्यथा आमिग्गहियं किल दिक्खियाणमणमिग्गहं तु इयराण / गुट्ठामाहिलमाई। जं अभिनिवेसियं तं तु / / संसइयं मिच्छत्तं जा संका जिववरुत्ततत्तेसु / विगलिंदियाण जं पुण तमणाभोगं विणिहिट्ठ।