________________ आगममतानधिकृतत्वं तथा गुणस्थानकेषु लेश्याः गोयमा ! नो नाणी नियमा अन्नाणी" इति / स चेत्थं सासादनभावप्रतिषेधः सूत्रे मतोऽपि केनचित्कारणेन कार्मग्रन्थिकै भ्युपैयत, इतीहापि नाधिक्रियते तदभिप्रायस्यैवेह प्रायोऽनुसरणादिति / 'नेहाहिगयं सुयमयंपि'इत्येतद्विभक्तिपरिणामेन प्रतिपादं संबन्धनीयं तथैव च संबन्धितमिति // 72 // ____ गुणस्थानकेश्वेव लेश्या अभिधित्सुराह लेसा तिन्नि पमत्तं तेऊपम्हा उ अप्पमत्तता। सुक्का जाव सजोगी निरुद्धलेसो अजोगि त्ति // 73 // (हारि०) व्याख्या-आद्यास्तिस्त्रो लेश्याः प्रमत्तान्ताः प्रमत्तात्परतो न भवन्तीति प्रमत्तं यावत्पडपीत्यर्थः / तथा तैजसीपद्म त्वप्रमत्तान्तेऽप्रमत्तात्परतस्ते न भवतोऽप्रमत्ने अन्त्यास्तिस्रो लेश्या इत्यर्थः / ततोऽप्रमत्तादूध 'शुक्ला' शुक्ललेश्यकैवेत्यर्थो यावत् सयोगिगुणस्थानम् / तथा 'निरुडलेश्यः' अलेश्य इत्यर्थः, कोऽसौ ? इत्याह-'अयोगी' अयोगिकेवली / इतिशब्दो लेण्याद्वारसमाप्त्यर्थे / इति गाथार्थः / / 73|| इत्युक्ता लेश्या गुणस्थानकेषु 4 / साम्प्रतं बन्धहेतवः, ते च मूलभेदतश्चत्वार उत्सरभेदतः सप्तपश्चाशदिति तानुभयथाऽभिधित्सुराह (मल०) आद्यास्तिस्रो लेश्याः 'प्रमत्तान्ताः' प्रमत्तगुणस्थानकपर्यन्ता भवन्ति, प्रमत्तात्परतो न भवन्तीति यावत् / तेजःपद्मलेश्ये तु 'अप्रमत्तान्ते' मिथ्यादृष्टिगुणस्थानकात्प्रभृति यावदप्रमत्तगुणस्थानकं तावद्भवत इत्यर्थः / 'सुक्का जाव सजोगी' इति मिथ्यादृष्टिगुणस्थानकात्प्रभृति यावत्सयोगिकेवलिगुणस्थानकं तावत् 'शुक्ला' शुक्ललेश्या भवति / 'निरुद्धलेसो अजोगी त्ति' अयोगी अयोगीकेवली 'निरुडलेश्यः' अपगतलेश्यो भवति / इतिर्वाक्यपरिसमाप्तौ / इह लेश्यानां प्रत्येकमसंख्येयलोकाकाशप्रदेशप्रमाणान्यध्यवसायस्थानानि / तती मन्दाध्यवसायस्थानापेक्षया शुक्ललेश्यादीनामपि मिथ्यादृष्टयादौ कृष्णलेश्यादीनामपि प्रमत्त गुणस्थानकेऽपि संभवो न विरुध्यत इति / / 73 / / तदेवमुक्ता गुणस्थानकेषु लेश्याः / साम्प्रतं बन्धहेतवो ववतुमवसरप्राप्ताः, ते च मूलभेदतश्चत्वार उत्तरभेदतश्च सप्तपश्चाशत् , एतानुभयथाऽप्यभिधित्सुराह-- बंधस्स मिच्छअविरइकसायजोग त्ति हेयवो चउरी। ., पंच दुवालम पणुवीस पनरस कमेण भेया सिं // 74 / / .(हारि०) व्याख्या-मिथ्यात्वाविरतिकषाययोगाः, 'इति' अमुना प्रकारेण बन्धस्य मूल "अविरया इत्यपि पाठः। i ) .