________________ 248 ] पडशीतिनाम्नि चतुर्थ कर्मग्रन्थे नत्वात् / तथा 'न' नैवैकेन्द्रियेषु 'सासाणो' इति लिङ्गव्यत्ययात्सासादनमिति न चाधिकतम् , किन्त्वेकेन्द्रियेषु सासादनमधिकृतं तत एव हेतोः / इति गाथार्थः / / 72 // इतो लेश्यास्तेष्वेवाभिधित्सुराह (मल०) 'सासादनभावे' सासादनसम्यग्दृष्टित्वे सति ज्ञानं भवति, नाज्ञानमिति / श्रुतमतमपि' मूत्रसम्मतमपि, तथाहि-बेइंदियाणं भते ! किं नाणो अन्नाणी ? गोयमा ! जाणीवि अण्णाणीवि / जे नाणी ते नियमा दुनाणी / तंजहा-आभिणियोहियनाणी सुयणाणी / जे अण्णाणी ते वि नियमा दुअन्नाणी। तंजहा-मइअन्नाणी सुयअन्नाणी य // " इत्यादि सूत्रे द्वीन्द्रियादीनां ज्ञानित्वमभिहितम् , तच सासादनसम्यक्त्वापेक्षयैव न शेषसम्यक्त्वापेक्षया, असंभवात् / उक्तं च प्रज्ञापनाटीकायाम्-बेइदियरस दो णाणी कहं लम्भंनि ? भण्णइ सासायणं पडुच्च तस्सापजत्तयस्स दो णाणा लब्भंति" इति / ततः सासादनभावेऽपि ज्ञानं सूत्रे सम्मतमेव, तच्चेत्थं सम्मतमपि नेह प्रकरणेऽधिकृतं कित्वज्ञानमेव, कामंग्रन्थिकाभिप्रायस्यानुसरणात् / तदभिप्रायश्चायम्-सासादनस्य मिथ्यात्वाभिमुखतया तत्सम्यक्त्वस्य मलीमसत्वेन तन्निबन्धनस्य ज्ञानस्यापि मलीमसत्वादज्ञानरूपतेति / तथा सूत्रे वैक्रिये आहारके चारभ्यमाणे तेन प्रारम्यमाणेन सहोदारिकस्य मिश्रीभवनात् , औदारिकर्मिश्रमुक्तम् / तथा चाह प्रज्ञापनाटीकाकारः-यदा पुनरौदारिकशरीरी वैक्रियलब्धिसंपन्नो मनुष्यः पञ्चेन्द्रियतिर्यग्योनिको वा पर्याप्तबादरवायुकायिको वा वैक्रियं करोति तदौदारिकशरीरयोग एव वर्तमानः प्रदेशान् विक्षिप्य वैक्रियशरीरयोग्यान प्रगलानादाय यावद्वैक्रियशरीरपर्याप्त्या पर्याप्ति न गच्छति तावद्वैक्रियेण मिश्रता . व्यपदेशश्चौदारिकेण तस्य प्रधानत्वात् / एवमाहारकेणापि सह मिश्रता द्रष्टव्या / आहारयति च तेनैवेति तेनैव व्यपदेश इति / परित्यागकाले च वैक्रियस्याहारकस्य च यथाक्रमं वैक्रिय मिश्रमाहारकमिश्रं च / उक्तं च प्रज्ञापनाटीकायामेवाहारकमधिकृत्य-यदाहारकशरीरी भूत्वा कृतकार्यः पुनरप्यौदारिकं गृह्णाति तदाऽऽहारकस्य प्रधानत्यादौदारिकप्रवेशं प्रति व्यापारभावान्न परित्यज्यते, यावत्सर्वथैवाहारकं तदौदारिकेण सह मिश्रतेत्याहारकमिश्रता इत्याहारकमिश्रशरीरकायप्रयोग इति / तच्चेत्थम्-वैक्रियाहारकारम्भकाले औदारिकमि सूत्रेऽभिहितमपि नेह प्रकरणेऽधिकृतं कार्मग्रन्थिकैः, गुणविशेषप्रत्ययसमुत्थलब्धिविशेषकारणतया प्रारम्भकाले परित्यागकाले च पैक्रियस्याहारकस्य च प्राधान्यविवक्षरा वैक्रिय मिश्रस्याहारकमिश्रयैव चाभिधानात् तदभिप्रायस्य चेहानुसरणात् / तथा नैकेन्द्रियेषु 'सासाणो' इति भावप्रधानोऽयं निर्देशः सासादनभावः सूत्रे मतः, अन्यथा द्वीन्द्रियादीनामिवैकेन्द्रियाणामपि ज्ञानित्वमुच्येत न चोच्यते, किन्त विशेषतः प्रतिषिध्यते / तथाहि-'एगिदियाणं भंते ! किं नाणी अण्णाणी ?