________________ गुणस्थानकेधूपयोगास्तथा सिद्धान्तमतानधिकृतत्वकथनम् मीसे 'ते च्चिय मीसा सत्त पमत्ताइसुसमणनाणा। केलियनाणदंसणउवओगा जोगजोगीसु // 71 / / (हारि०) व्याख्या-मिश्रगुणस्थानके त एव पूर्वोक्ताः षडुपयोगा अज्ञानमिश्राः / तथा सप्तोपयोगाः, केषु ? इत्याह-प्रमत्तयत्यादिषु क्षीणमोहान्तेषु सप्तगुणस्थानकेषु, कीदृशाः ? समनःपर्यायज्ञानाः / 'ते चिय' इत्यत्रापि संबन्धात्त एव पूर्वोक्ताः षडुपयोगाः समनःपर्ययज्ञानाः सप्तेत्यर्थः / तथा केवलिकज्ञानदर्शनोपयोगाविति कर्मधारयः, कयोः 1 इत्याह-'योग्ययोगिनोः' सयोग्ययोगिकेवलिगुणस्थानकयोर्भवत इति शेषः / इति गाथार्थः / 71 // ____ इत्युक्ता उपयोगा गुणस्थानकेषु / साम्प्रतमिहैवागमोक्तानामपि केषांचिदर्थानामनधिकृतत्वमाह (मल०) 'मिश्रे' मिश्रगुणस्थानके त एव पूर्वोक्ताः षडुपयोगा अज्ञानमिश्रा द्रष्टव्याः, तस्योभयदृष्टिपातित्वात् / केवलं कदाचित्सम्यक्त्वबाहुल्येन ज्ञानबाहुल्यम् , कदाचिच्च मिथ्यात्वबाहुल्येनाज्ञानवाहुल्यम् , समकक्षतायां तूभयोरपि समतेति / अस्मिश्च गुणस्थानके यदवघिदर्श नमुक्तं तत्सैद्धान्तिकमतापेक्षया द्रष्टव्यमित्युक्तं प्राक् / तथा प्रमत्तादिषु क्षीणमोहपर्यन्तेषु सप्तसु गुणस्थानकेषु त एव पूर्वोक्ताः षड् उपयोगाः 'समणनाणा' इति समनःपर्यायज्ञानाः सन्तः सप्त भवन्ति न शेषाः, मिथ्यात्वघातिकर्मक्षयाभावात् / तथा केवलिक ज्ञानदर्शनलक्षणौ द्वावुपयोगौ सयोगिकेवलिनि अयोगिकेवलिनि च गुणस्थानके भवतो न शेषा दश ज्ञानदर्शनलक्षणाः, तदुच्छेदेनैव केवलज्ञानदर्शनोत्पत्तेः / 'नटुंमि उ छाउमथिए नाणे" इतिवचनात् / / 71 // तदेवमुक्ता गुणस्थानकेधूपयोगाः / साम्प्रतं यदिह प्रकरणे सूत्राभिमतमपि कार्मग्रन्थिकाभिप्रायानुसरणतो नाधिकृतं तदर्शयन्नाह सासणभावे नाणं विउविगाहारगे उरलमिस्सं / नेगिदिसु सासाणो नेहाहिगयं सुयमयंपि // 72 // (हारि०) व्याख्या 'सासादनभाचे' सासादने सति ज्ञानमित्यादि 'श्रुतमतमपि' सिद्धान्ताभिप्रेतमपि 'न' नैव 'इह' अस्मिन् प्रकरणे 'अधिकृतं' अभ्युपगतम् , किन्त्वज्ञानमेवाधिकृतं कर्मग्रन्थाभिप्रायस्येहाश्रितत्वादिति संवन्धः / तथा 'वैक्रियाहारके वैक्रियाहारककरणे औदारिकमिश्रमित्यपि नाधिकृतम् , किन्तु वैक्रियमिश्रमाहारकमिश्रं चाधिकृतम् , तस्यैव प्रधा१ "तिश्चिय” इत्यपि पाठः।