________________ 246 ] षडशीतिनाम्नि चतुर्थे कर्मग्रन्थे मादिमे, ते च ते मनोवाग्द्विके, च चरमादिममनोवाग्द्विके, चरमादिमं च मनोऽसत्यामृषं सत्यं चेत्यर्थः, चरमा आदिमा च वागसत्यामृषा सत्या चेत्यर्थः, ततश्चरमादिमनोवाग्द्विके च कार्मणं चौदारिकद्विकं चौदारिकशरीरतन्मिश्रलक्षणं चरमादिममनोवाग्द्विककार्मणौदारिकद्विकम् , इत्येते सप्तेति संबन्धः, योगा भवन्ति / कस्य ? इत्याह-'योगिनः' सयोगिकेवलिनः। तत्र मनोद्विकं दूरदेशस्थमनःपर्यायज्ञानादिषुद्रव्यमनोव्यापारणात् / वाग्द्विकं देशनादावुपयोगात् / कार्मण औदारिकमिश्रश्च केवलिसमुद्धातेऽष्टसामयिके यथासंभवमौदारिकश्च चङ्कमणादौ द्रष्टव्य इति, तथा गतयोगश्चायोगीति / इति योजिता योगा गुणस्थानकेषु 2 / वक्ष्येऽभिधास्येऽत ऊर्ध्व कान् ? उपयोगान प्राक्प्रतिपादितस्वरूपान् , कियतः 1 द्वादश गुणस्थानकेष्विति प्रक्रमः / इति गाथार्थः // 66 // प्रस्तावितमेवाह__ (मल०) चरमादिमरूपं मनोद्विकं चरमादिमरूपं च वाग्द्विकं कार्मणमौदारिकतन्मिश्र- . लक्षणमौदारिद्विकं चेति सप्त योगाः 'योगिनः' सयोगिकेवलिनो भवन्ति / तत्र चरमं मनोऽऽसत्यामृषा आदिमं सत्यम् एवं चरमादिमे वाचावपि द्रष्टव्ये / कार्मणौदारिकमिश्रे तु समुद्धातावस्थायामिति / 'गयजोगो उ अजोगी' इति अयोगी अयोगिकेवली गतयोग एव भवति, योगाभावनिबन्धनत्वादयोगित्वावस्थायाः. तुशब्द एवकारार्थः तदेवमभिहिता गुणस्थानकेषु योगाः / साम्प्रतमेतेष्वेवोपयोगानभिधातुकाम आह-'वोच्छमओ' इत्यादि / वक्ष्येऽभिधास्येऽत ऊर्ध्व गुणस्थानकेषु द्वादश उपयोगान् // 66 // तानेवाह अचक्खुचक्खुदंसणमन्नाणतिगं च मिच्छमासाणे / अविरयसम्मे देसे, तिनाणदंसणतिगंति छ उ // 7 // (हारि०) व्याख्या-दर्शनशब्दस्य प्रत्येकमभिसंबन्धादचक्षुर्दर्शनचक्षुर्दर्शन मिति द्वन्द्वः, तथाऽज्ञानत्रिक चेति पञ्चोपयोगाः, कयोः ? इत्याह-वचनव्यत्ययान्मिथ्यादृष्टिसासादनयोरिति द्वन्द्वः / तथाऽविरतसम्यक्त्वे 'देसे' देशविरते च, किम् ? इत्याह-त्रिज्ञानदर्शनत्रिकमिति कर्मधारयतत्पुरुषगर्भः समाहारद्वन्द्वः, इत्येते षडुपयोगाः / इति गाथार्थः / / 70 // तथा (मल०) अचक्षुर्दर्शनं चक्षुर्दर्शनं अज्ञानत्रिकं च मत्यज्ञानश्रुताज्ञानविभङ्गलक्षणमित्येते पञ्चोपयोगा मिथ्यादृष्टिसासादनगुणस्थानकयोर्भवन्ति न शेषाः, सम्यक्त्वविरत्यभावात् / तथाऽविरतसम्यग्दृष्टौ देशविरते च त्रीणि ज्ञानानि मतिश्रुतावधिलक्षणानि, दर्शनत्रिकं चक्षुरचक्षुरवधिदर्शनलक्षणमित्येते षडुपयोगा भवन्ति न शेषाः, मिथ्यात्वसर्वविरत्यभावात् // 7 //