________________ गुणस्थानकेषु योगाः [ 245 मान्यैश्च तन्नाभ्युपगम्यते तन्न सम्यगवगच्छामः. तथाविधसंप्रदायाभावात् , एतच्च प्रागेवोक्तमिति / त एवानन्तरोक्ता दश योगा वैक्रियमिश्रयुताः सन्त एकादश देशयते' देशविरतिगुणस्थानके भवन्ति, अम्बडस्येव वैक्रियलब्धिमतो देशविरतस्य वैक्रियारम्भसंभवात् / तथा 'प्रमत्ते' प्रमत्तगुणस्थानके त एवानन्तरोक्ता एकादश योगा ‘साहारदिकाः' आहारकद्विकमहिनाः सन्तस्त्रयोदश भवन्ति // 67 // एक्कारस अपमत्ते, मणवइआहारउरलवेउव्वा / अप्पुव्वाइसु पंचसु, नव ओरालो मणवई य // 68 // हारि०) व्याख्या-एकादश योगाः, क ? इत्याह-अप्रमत्ते, कीदृशास्ते ? इत्याह-मनोवागाहारकौदारिकवैक्रियाणीति द्वन्द्वः / तत्रौदारिकमिश्रमपर्याप्तकतिर्यङ्मनुष्याणां केवलिसमुद्धाते च / कामणं तु विग्रहगतौ तिर्यगादीनां केवलिसमुद्धाते च। तथाऽऽहारकमिश्रं प्रमत्तयतेः / वैक्रियमिश्रं तु देवादीनामिति / एते चत्वारो योगा यथायोगमेतेषु भवन्ति, अतोऽप्रमत्ते प्रोक्ता एवेकादश योगा भवेयुरिति / तथाऽपूर्वादिषु निवृत्तिवादरगुणस्थानकादिषु पञ्चसु क्षीणमोहान्तेष्वित्यर्थः, कियन्तो योगाः ? इत्याह-नवेति संख्यौदारिकमनोवचासि चेति द्वन्द्वः, औदारिककाययोगश्चत्वारि मनांसि चत्वारि वचनानि / इति गाथार्थ; // 68|| साम्प्रतं योगान् समर्थयन्नुपयोगसंबन्धं दर्शयन्नाह(मल०) चतुर्विधवाग्योगचतुर्विधमनोयोगाहारकौदारिकवैक्रियलक्षणा एकादश योगाः अप्रमत्ते' अप्रमत्तगुणस्थानके भवन्ति / यत्तु वैक्रियमिश्रमाहारकमिश्रं च तन्न संभवति, तद्धि वैक्रियस्याहारकस्य च प्रारम्भकाले भवति, तदानीं लब्ध्युपजीवनादिनौत्सुक्यभावतः प्रमादसंभव इति / तथा औदारिकमिश्रमपर्याप्तावस्थायाम् , कार्मणं त्वपान्तरालगतो, यद्वोभेऽपि केवलिसमुद्धातावस्थायाम् , ततस्तेऽपीह पूर्वत्र च गुणस्थानके न संभवत इति / 'अप्पुव्वाइस' इत्यादि / अपूर्वादिष्वपूर्वकरणादिषु क्षीणमोहपर्यन्तेषु पञ्चसु गुणस्थानके वौदारिकं चतुर्विधं मनश्चतुर्विधा वाग् इत्येते नव योगा भवन्ति, न शेषाः, अत्यन्तविशुद्धतया तेषां वैक्रियाहारकारम्भासंभवात् , तत्र स्थितानां च स्वभावत एव श्रेण्यारोहाभावात / औदारिकमिश्रकार्मणकाययोगाभावस्तु पूर्वोक्तयुक्तरेवावसेय इति // 6 // घरमाइममणवइदुगकम्मुरलदुर्गति जोगिणो सत्त। गयजोगों य अजोगी, वोच्छमओ बारसुवओगे॥६९॥ (हारि०) व्याख्या-मनश्च वाक् च तयोदिके, मनोवाग्द्विके चरमं चान्त्यं, आदिमं चाद्यं चर१“तु" इत्यपि पाठः। -