________________ 244 षडशीतिनाम्नि चतुर्थ कर्मग्रन्थे (हारि०) व्याख्या-इति जीवस्थानानि गुणस्थानकेषक्तानि / इति शेषो दृश्यः // 1 // इतो योगादि वक्ष्ये, इति गाथार्द्धन संबन्धोऽभिहितः / साम्प्रतं संबन्धितमेवार्थमाह-योगा उक्तस्वरूपा भवन्ति / किमशेषा अपि ? न इत्याह-आहारकद्विकोनास्त्रयोदशेत्यर्थः, क्व ? इत्याह'मिच्छे' इति मिथ्यादृष्टौ सासादनेऽविरते च गाथार्थः // 66 // तथा (मल०) 'इति' एवमुपदर्शितेन प्रकारेण जीवस्थानकानि गुणस्थानकेषु द्रष्टव्यानि / 'एत्ताहे' इति इत ऊर्ध्व सम्प्रति 'योगादि' आदिशब्दादुपयोगादिपरिग्रहः, 'वक्ष्ये' अभिधास्ये / तत्र योगान् तावदाह-जोगा' इत्यादि / योगा आहारकद्विकेन आहारकतन्मिश्रलक्षणेन ऊना रहिताः शेषास्त्रयोदश मिथ्यादृष्टौ सासादने अविरतौ च भवन्ति / मिथ्यादृयादिगुणस्थानकत्रये हि संज्ञिपञ्चेन्द्रियोऽपि लभ्यते, तस्य च यथोक्तास्त्रयोदशापि योगाः संभवन्ति / यच्चाहारकद्विकं तच्चतुर्दशपूर्विण एव / तदुक्तम्-आहारदुगं जायइ चउदसविस्स' 'इति / न च मिथ्यादृष्ट्यादौ चतुर्दशपूर्वाधिगमसंभव इति // 36 // उरलविउव्व'वइमणा दस मीसे ते विउव्विमीसजुया। देसजए एकारस साहारदुगा पमत्ते. ते // 6 // (हारि०) व्याख्या-औदारिव क्रियवाग्मनांसीति द्वन्द्वः, इंति दश योगा मिश्रे-न सम्ममिच्छो कुणइ कालं" इतिवचनात् / कार्मणौदारिकवैक्रियमिश्रत्रिकं न भवति, आहारकद्विक तु यतेरेव भवति, अतो मिश्रे दश योगा इति भावना / तथा ते पूर्वोक्ता दश योगा वैक्रियमिश्रयुता एकादशेत्यर्थः क्व ? इत्याह-देशयते / तथा सहाहारकद्विकेन आहारकशरीरतन्मिश्रलक्षणेन वर्तन्त इति साहारकद्विकास्ते पूर्वोक्ता एकादश त्रयोदशेत्यर्थः, क्व ? इत्याह-'प्रमत्ते' षष्ठगुणस्थानके / इति गाथार्थः / / 67 / / तथा (मल०) औदारिकवैक्रियचतुर्विधवाग्योगचतुर्विधमनोयोगलक्षणा दश योगा मिश्रे सम्यग्मिथ्यादृष्टौ भवन्ति न शेषाः। तथा ह्याहारकद्विकस्यासंभवः पूर्वोक्तयुक्तेरेव, कार्मणशरीरं त्वपान्तरालगतौ संभवति, अस्य च मरणासंभवेनापान्तरालगत्यसंभवस्ततस्तस्याप्यसंभवः, अत एवौदारिकवैक्रियमिश्रेऽपि न संभवतः, तयोरपर्याप्तावस्थाभावित्वात् / तस्यां चावस्थायां सम्यग्मिथ्यात्वाभावात् / ननु च मा भूद्देवनारकसंबन्धि वैक्रियमिश्रम् , यत्पुनर्मनुष्यतिरश्चा सम्यग्मिथ्यादृशां वैक्रियलब्धिमतां वैक्रियकरणसंभवेन तदारम्भकाले वैक्रियमिश्रं भवति तत्कस्मानाभ्युपगम्यते ?, उच्यते, तेषां वैक्रियकरणासंभवतोऽन्यतो वा यतः कुतश्चित्कारणादाचार्य. .1 "वय" इत्यपि पाठः।