________________ शेषमार्गणास्वल्पबहुत्वं तथा गुणस्थानकेषु जीवस्थानकानि [ 243 जीवाः ते च प्राय आहारकाः. तत्कथमसंख्यातगुणा अनाहारकेभ्य आहारकाः ? इति, नैष दोषः, यतः प्रतिसमयमेकैकस्य निगोदस्यासंख्येयभागप्रमाणा विग्रहगत्यापन्ना जीवा लभ्यन्ते ते चानाहारकाः. तत आहारकजीवानामनाहारकजीवापेक्षयाऽसंख्यातगुणत्वमेवेति / / 64 // उक्तं गत्यादिषु मार्गणास्थानेषु स्वस्थानापेक्षयाऽल्पबहुत्वम् / इदानीं गुणस्थानकेषु जीवस्थानानि चिन्तयन्नाह मिच्छे सव्वे छ अपज सन्निपजत्तगो य सासाणे। सम्मे दुविहो सन्नी. संसेसु सनिपजत्तो // 65 // (हारि०) व्याख्या-मिथ्यादृष्टौ सर्वजीवस्थानानि भवन्तीति गम्यम् / तथा षडपर्याप्तकजीवस्थानानि सूक्ष्मरहितानि संज्ञी पर्याप्तकश्चेति सप्तमं जीवस्थानकम् . क्व ? इत्याह-सासादने / तथा 'सम्मे' इति अविरतसम्यग्दृष्टिगुणस्थानके, किम् ? इत्याह-'विविधः पर्याप्तापर्याप्तलक्षणः संज्ञीति जीवस्थानकद्वयम् / तथा शेषेषु' मिश्रदेशविरत्यादिष्वेकादशगुणस्थानकेषु संज्ञी पर्याप्त इत्येकं जीवस्थानकम् / इति गाथार्थः // 65 // माम्प्रतं गुणस्थानकेषु जीवस्थानकसमर्थनां सूचयन् योगादिसंबन्धं दर्शयंश्च तेषु तानेवाह.. (मल०) मिथ्यादृष्टिगुणस्थानके सर्वाण्यपर्याप्तसूक्ष्मैकेन्द्रियादीनि पर्याप्तसंज्ञिपञ्चेन्द्रियपर्यन्तानि जीवस्थानानि भवन्ति, मिथ्यात्वस्य सर्वेष्वप्येतेषु संभवात् / तथा सूक्ष्मैकेन्द्रियवर्जिताः शेषाः षट् अपर्याप्तकाः संज्ञी पर्याप्तकश्चेति सप्त जीवस्थानानि सासादनसम्यग्दृष्टिगुणस्थानके भवन्ति / अपर्याप्तकाश्येह करणापर्याप्तका द्रष्टव्याः न तु लब्ध्यपर्याप्तकाः, तेषु मध्ये सासादनसम्यक्त्वसहिस्योत्पादाभावात् / 'सम्मे दुविहो सन्नो' इति अविरतसम्यग्दृष्टिगुणस्थाने 'विविधः पर्याप्तापर्याप्तरूपतया द्विप्रकारः संज्ञी ज्ञातव्यः / इहाप्यपर्याप्तकः करणापेक्षया द्रष्टव्यः न तु लब्ध्यपर्याप्तकमध्येऽविरतसम्यग्दृष्टेरुत्पादाभावात् / 'शेषेषु' मिश्रदेशविरत्यादिषु गुणस्थानकेषु पर्याप्तसंज्ञिपञ्चेन्द्रियलक्षणमेकमेव जीवस्थानकं द्रष्टव्यं न शेषाणि, तेषां मिश्रभावदेशसर्वविरतिप्रतिपत्त्यभावात् / न च पूर्वप्रतिपन्नमिश्रभावोऽन्येषु जीवस्थानकेषु लभ्यते-"न सम्ममिच्छो कुणइ कालं" इतिवचनात् // 65 // - उपसंहारमाह इय जियठाणा गुणठाणगेसु जोगाइ वोच्छमेत्ताहे। जोगाहारदुगुणा, मिच्छे सासणअविरए य // 66 //