________________ 242] षडशीतिनाम्नि चतुर्थे कर्मग्रन्थे इति सम्यक्त्वे सप्रतिपक्षेऽल्पबहुत्वमुक्तम् / तथा (मल०) स्तोकाः सासादनसम्यग्दृष्टयः, तेभ्यः संख्यातगुणा औपशमिकसम्यग्दृष्टयः, केषांचिदेवोपशमिकसम्यक्त्वतः प्रच्युतेः, ततः प्रच्यवमानानां च सासादनत्वात् / तेभ्योऽपि चौपशमिकसम्यग्दृष्टिभ्यः सकाशान्मिश्राः संख्यातगुणाः' तेभ्योऽपि क्षायोपशमिकसम्यग्दृष्टयोऽसंख्यातगुणाः तेभ्योऽपि क्षायिकसम्यग्दृष्टयोऽनन्तगुणाः, क्षायिकसम्यवत्वाता सिद्धानामानन्त्यात् / तेभ्योऽपि मिथ्याद्रष्टयोऽनन्तगुणाः, सिद्धेभ्योऽपि वनस्पतिजीवानामननन्तत्वात , तेषां च मिथ्यादृष्टित्वात् / इति // 63 // सन्नी थोवा तत्तो, अणंतगुणिया असन्निणो होति। थोवाणाहारजिया, तदसखगुणा 'सआहारा // 64 // ___ (हारि०) व्याख्या-संज्ञिनः स्तोकाः. ततोऽनन्तगुणिताः 'असंज्ञिन:' मनोविज्ञानविकलाः पृथिवीकायिकादिसर्वजीवा भवन्तीति, क्रियापदं सर्वाल्पबहुत्वपदेषु योज्यम् / इति संशिष्वल्पबहुत्वमुक्तम् / तथा स्तोका आहारकापेक्षयाऽनन्ता अप्यनाहारकाः / एषां चानन्तत्वं प्रतिसमयोद्धतनिगोदासंख्येयाभागप्रमाणानन्तकायिकजीवानामनन्तानां विग्रहगत्यापन्नानां तथा सिद्धानां चानन्तानां सद्भावात् / तेभ्योऽसंख्यातगुणास्तदसंख्यातगुणा भवन्ति, के ? इत्याहसहाहारेण वर्तन्त इति साहारकाः / यतोऽनाहारका विग्रहगत्यापन्ना एकैकानगोदासंख्येयभागवर्तिन उक्ताः शेषाश्चाहारकाः / अतोऽनाहारकेभ्य आहारका असंख्येयगुणा एव / इति गाथार्थः // 64 // इत्युक्तमल्पबहुत्वम् , तदभिधानाच्च भणितं मार्गणास्थानगताभिधेयपदपट्कम् / अधुना गुणस्थानकेषु जीवस्थानाद्यभिधेयपददशकं मार्गयितुकामः प्रथमतस्तेष्वेव जीवस्थानान्याह, अबार्थेऽन्यकत की संवन्धगाथेयम्-इय जियहाणाईयं. मग्गणठाणेसु मग्गिय मसेसं / संपइ गुणठाणेसु, जीवाणाइयं वोच्छं // 1 // " इतः प्रस्तुतगाथोच्यते (मल०) स्तोकाः संज्ञिनो जीवाः, देवनारकसमनस्कपञ्चेन्द्रियतिर्यङ्नराणामेव संज्ञित्वात् / तेभ्योऽसंज्ञिनः संशिव्यतिरिक्ता अनन्तगुणाः, वनस्पतिकायजीवानामनन्तत्वात् / तथा स्तोका अनाहारकाः / विग्रहगत्यापन्नसमुद्धातगतकेवलिभवस्थायोगिकेवलिसिद्धानामेवानाहारकत्वात् / तेभ्योऽसंख्यातगुणाः साहारा आहारकजीवाः / ननु च सिद्धेभ्योऽनन्तगुणाः संसारि 1 “हुँति" इत्यपि पाठः। 2 "उ साहारा" // इत्यपि पाठः। 3 "तेभ्योऽसङ्ख्यगुणा भवन्ति" इत्यपि पाठः।