________________ सङ्ख्यास्वरूपं सम्यक्त्वमागंणाभेदेप्वल्पबहुत्वञ्च [ 241 सिद्धिया वि तत्तिया चेव" इति / इह तावदेतावनैव पर्याप्तम् / अतः परं तु विनेयजनानुग्रहाय मध्यमयुक्तानन्तकादीन्यपि संख्यास्थानान्युपदश्यन्ते / तत्र जघन्ययुक्तानन्तकात्पराणि यान्यनन्तसंख्यास्थानानि तानि मध्यमयुक्तानन्तकस्थानानि द्रष्टव्यानि, यावदुत्कृष्टं युक्तानन्तकं न भवति / तच्चैवमवगन्तव्यम्-जघन्ययुक्तानन्तकराशी यावन्ति रूपाणि तावत्प्रमाणानामेव जघन्ययुक्तानन्तकराशीनामन्योन्यमभ्यासे कृते सति यावान् राशिः संपद्यते तावानेकरूपोनः सन्नुत्कृष्टं युक्तानन्तकं भवति / रूपे च प्रक्षिप्ते सति जघन्यमनन्तानन्तकं भवति / ततः परं यान्यनन्तसंख्यास्थानानि तानि सर्वाण्यपि मध्यमानन्तानन्तकरूपाणि द्रष्टव्यानि / उत्कृष्टं त्वनन्तानन्तक नास्त्येव / तथा च सूत्रम्-"उकोसय अणंताणतयं नस्थि" इति अन्ये पुनराहुः-जघन्यानन्तानन्तकराशेस्तावतैव राशिना गुणनस्वरूपो वर्गः क्रियते, ततस्तस्य वर्गितराशेः पुनर्वर्गस्तस्यापि भूयो वर्गः / एवं वारत्रयं वर्ग कृते सति इमे पट प्रक्षेपाः प्रक्षिप्यन्ते-"सिद्धा निगोयजीवा, वणस्सई कालपुरगला चेव / सव्वमलोगागासं, छप्पेएऽणंतपक्वेवा // 1 // " इत्यस्य व्याख्या सर्व एव सिद्धा अपगतसकलकर्मकलङ्काः / तथा सर्वेऽपि सूक्ष्मवादरभेदभिन्ना निगोदजीवा अनन्तकायिकसत्त्वाः, तथा सर्व वनस्पतयः प्रत्येकानन्तवनस्पतिजीवाः, 'काल' इति सर्वेऽतीतानागताः समयाः, सर्वे पुग्लाः समस्तपुद्गलास्तिकायगताः परमाणवः, तथा सर्व समस्तमलोकाकाशम्', अयं च सर्वशब्दः प्रत्येकं लिङ्गवचनपरिणामेन संबन्धनीयः, स च तथैव संबन्धितः एते प्रदर्शितस्वरूपाः षडपि प्रक्षिप्यन्त इति प्रक्षेपाः, कर्मणि घम' प्रक्षेपणीया राशयः. पूर्वोक्तराशौ प्रक्षिप्यन्ते ततः पुनरप्येतावत्प्रमाणस्य राशेः पूर्वोक्तेनैव क्रमेण वारत्रयं वर्गों विधीयते ततः केवलज्ञानदर्शनपर्यायाः सर्वेपि तत्र प्रक्षिप्यन्ते, तत उत्कृष्टमनन्तानन्तकं भवति / सूत्राभिप्रायतश्चैवमप्युत्कृष्टमनन्तानन्तकं न भवतीति / प्रकृतमिदानीमनुस्रियते / तत्र यथोक्तसंख्येभ्योऽभव्येभ्यः सकाशाद्भव्या अनन्तगुणाः / किस्पास्ते ? इत्याह-निर्वाणगमनाः ' निवृतिगमनयोग्याः // 62 // सामाणउवसमियमिस्सवेयगक्खड्गमिच्छदिट्टीओ। थोवा दो संखगुणा, असंखगुणिया अणंता दो॥६३॥ (हारि०) व्याख्या-सासादनौपशमिकमिश्रवेदकक्षायिकमिथ्यादृष्टय इति द्वन्द्वः / तत्र स्तोकाः सासादनाः, ततो द्वावौपशमिकमिश्रदृष्टी संख्यातगुणौ, ततोऽसंख्यातगुणिता वेदकाः, क्षायोपशमकिसम्यग्दृष्टय इत्यर्थः, एतत्सम्यक्त्ववतां देवादीनामसंख्यगुणत्वात् / ततोऽनन्तगुणौ द्वौ क्षायिकमिथ्यादृष्टी / तत्र क्षायिकेष्वनन्तत्वं सिद्धापेक्षम् मिथ्यादृष्टिपदे च भावितार्थमेव / इतिं गाथार्थः // 63 //