________________ 240 ] पडशौतिनाम्नि चतुर्थ कर्मग्रन्थे पुनरपि तस्य वर्गितवर्गितरयान्यो वर्गो विधीयते / इत्येवं / त्रीन वारान् वर्गे कृते सति इमान दशा. ऽसंख्यातकप्रक्षेपान प्रक्षिपेत् / "लोगागासपएसा, धम्माधम्मेगजीवदेसाय / दव्वटिया निगोया, पोया चेव बोडव्या // 1 // ठिइबंधज्झवसाया, अणभागा जोगछेयपलि. भाग।। दोण्ह य समाणसमया, असंखपक्खेव दसउत्ति॥२॥" "दव्वठिया निगाया" इति द्रव्यस्थिता निगोदाः सूक्ष्मागां च बादराणां चानन्तकायिकजीवानां शरीराणि 'परोया' इति अनन्तकायिकव्यतिरिक्ताः पृथिव्यप्तेजोवायुवनस्पतित्रसाः प्रत्येकशरीरिणः। लिइबंधझवसाया" . इति स्थितिबन्धस्य कारणभूता अध्यवसायाः कषायोदयरूपाः / “ठिइअणुभागं कसायओ कुणइ" इतिवचनात् / स्थितिबन्धाध्यवसायाः तेऽप्यसंख्याता एव / तथाहि-ज्ञानावरणीयस्य कर्मणस्तावअधन्यस्थितिबन्धोऽन्तर्मुहूर्तप्रमाणः / मध्यमः स एवैकसमयाधिको द्विसमयाधिक इत्यादि. रूपः / उत्कृष्टस्तु त्रिंशत्सागरोपमकोटीकोटौप्रमाणः / एषां च स्थितिबन्धानां निर्वतका अध्यव. . . सायाः प्रत्येकनमेख्यलोकाकाशप्रमाणाः / 'ठिइयंधे ठिहबंधे अज्झवसाणाणऽसंखिया लोगा' इति वचनात् / एवं च सत्येकस्मिन्नपि ज्ञानावरणीये कर्मण्यसंख्याताः स्थितिबन्धाध्यकसायाः प्राप्यन्ते / किं पुनः समस्तेषु कर्मसु ? इति / अनुभागाझानावरणीयादिकर्मणां दलिकेषु जघन्यमध्यमादिभेदभिन्ना रसविशेषाः, तेषां निष्पादकानि यान्यध्यवसायस्थानानि सान्यनुभागपन्धाध्यवसायस्थानानि, पदैकदेशे षदसमुदायोपचारात् / तत्रानुभागवन्धाध्यवसायस्थानान्यनु / भागशब्देनोक्तानि तानि चासंख्येयलोकाकाशप्रदेशप्रमाणानि / जोगळे यपलिभागो' इति योगो मनोवाकानिमित्तं वीयम् तस्य प्रज्ञाच्छेदनकच्छेदेम प्रतिविशिष्टा निर्विभागा भागा योगच्छेदप्रतिभागाः, ते च जघन्ययोगस्थानादारभ्योत्कृष्टयोगस्थानं यावत्प्रत्येकमसंख्येयलोकाकाशप्रदेशप्रमाणा भवन्ति / 'दोण्ड य समाणसमया' इति / द्वयोः समयोरुत्सपिण्यवसर्पिण, रूपयोः समयाः परमनिरुद्धाः कालविशेषाः, तेऽप्यसंख्याता एव / एतेषां च दशानां राशीनां प्रक्षेपे सति पुनः समस्तस्यापि राशेः पूर्ववत्स्त्रीम वारान वर्गो विधीयते / तत एतावत्प्रमाणो राशिरेकरूपोन उत्कृष्टमसंख्यातासंख्यातकं भवति / उक्तमसंख्यातकम् , इदानीमनन्तकमुच्यते / तदपि विधा, परीतानन्तकं युक्तानन्तकं अनन्तानन्तकं च / पुनरप्येक विधा, जघन्य मध्यममुत्कृष्टं च / तत्रोत्कृष्टासंख्यातासंख्यातकराशावेकरूपे प्रक्षिश्ते सति जघन्यं परीतानन्तकं भवति / ततः परं यान्यनन्तकरूप संख्यास्थानानि तानि मध्यमपरीतानन्तकानि द्रष्टव्यानि, यावदुत्कृष्टं परीतानन्तकं न भवति / तच्चैवम्-जघन्यपरीतानन्तकराशौ यावन्ति रूपाणि तावसंख्याकानां जधन्यपरीतानन्तकराशीनां परस्परमभ्यासे कृते सति यावान् राशिर्भवति. तावानेकरूपहीनः सन्नुत्कृष्ट परीतानन्तके भवति / रूपे च प्रक्षिप्ते सति जघन्य युक्तानन्तक भवति / एतावत्प्रमाणा अभव्यजीवाः / तथा च सूत्रे जघन्ययुक्तानन्तकसंख्याभिधानानन्तरम्'-"अभव,