________________ सङ्ख्यास्वरूपं [ 239 न्य परीता ख्यातक उत्कृष्टसङ्ख्यातकमेवेकरूपाधिकं द्रष्टव्यम् / यत उक्त सूत्रे-'उक्कोसए संखेज्जयं स्वं पक्खित्तं जहण्णयं परित्तासंखेजयं होइ" इति / ततः परमसंख्यातसंख्यास्थानानि सण्यपि मध्यमपरीतासंख्यातकरूपाणि द्रष्टव्यानि यावदुत्कृष्टं परीतासंख्यातकं न भवति / तच्चैवंरूपम्-जघन्यपरीतासंख्यातकसंबन्धीनि यावन्ति सर्पपलक्षणानि रूपाणि तान्येकैकशः पृथक् पृथक् संस्थाप्य, तत एकैकस्मिन् रूपे जघन्यपरीतासंख्यातकप्रमाणो राशिर्व्यवस्थाप्यते / तेषां च राशीनां परस्परमभ्यासो विधीयते / इहैवं भावना-असत्कल्पनया किल जघन्यपरीतासंख्यातकराशिस्थाने पञ्च रूपाणि कल्प्यन्ते / तानि च रूपाणि पृथक् पृथग् विधियन्ते / जाताः पञ्च एककाः / 1 एतेषामेककानां स्थाने प्रत्येकं पञ्चपरि५ माणो राशिर्व्यवस्थाप्यते एतेषां च राशीनामेवमभ्यासः क्रियते / पञ्चभि गुणिताः पश्च, जाता पञ्चविंशतिः / एषा पञ्चभिरभ्यस्यते, जाते पञ्चविंशं शतं / 5 एवमनेन क्रमेण परस्परमभ्यासे सति जातानि पञ्चविंशत्यधिकान्येकत्रिंशच्छतानि 3125 एवमिहापि यथोक्तजघन्यपरीतासंख्यातकराशीनां पृथक् पृथग् एफैकस्मिन् रूपे व्यवस्थापितानां परस्परमभ्यासे सति यावान् राशिरुत्पद्यते, तावान् रूपोनः सन्नुत्कृष्टं परीतासंख्यातकं भवति / रूपे च प्रक्षिप्ते सति जघन्यं युक्तासंख्यातकं भवति, तावत्प्रमाणा एव च समया एकस्यामावलिझायां द्रष्टव्याः / तथा च सूत्रं जघन्ययुक्तासंख्यातकाभिधानानन्तरम्-'आवलिया वि तत्तिल्लिया चेव" इति / ततः परं यान्यसंख्यातसंख्यास्थानानि तानि मध्यमयुक्तासंख्यातकस्थानानि द्रष्टव्यानि, यावदुत्कृष्टं युक्तासंख्यातकं न भवति / तच्चेवम् यानि जघन्ययुक्तासंख्यातकराशौ रूपाणि तान्येकैकशः पृथक् पृथक् संस्थाप्य तत एककरिमन रूपे जघन्ययुक्तासंख्यातकप्रमाणो राशिर्व्यवस्थाप्यते / तेषां च राशीनां पूर्वोक्तप्रकारेण परस्परमभ्यासे सति यावान् राशिः संपद्यते, तावान् एकरूपोनः सन्नुत्कृष्टं युक्तासंख्यातकं भवति / रूपे च प्रक्षिप्ते सति जघन्यमसंख्यातासंख्यातकं भवति / अन्ये पुनराहुः-जघन्ययुक्तासंख्यातकराशौ जघन्ययुक्तासंख्याकराशिना वर्गिते सति यावान् राशिः संभवति / यथा चतुष्केन वर्गिते षोडश, तावत्प्रमाणो राशिरेकरूपोनः सन्नुत्कृष्टं युक्तासंख्यातकं भवति / रूपे च प्रक्षिप्ते सति जघन्यमसंख्यातासंख्यातकं भवति / ततः परं यान्यसंख्यातसंख्यास्थानानि तानि सर्वाप्यपि मध्यमासंख्यातासंख्यातकस्थानानि, यावदुत्कृष्टमसंख्यातासंख्यातकं न मवति / तत्पुनः कियत् ? इति चेद् , उच्यते, जघन्यासंख्यातासंख्यातकराशिरूपाणि पृथक्पृथग् एकैकशी व्यवस्थाप्य तत एकैकस्मिन रूपेजघन्यासंख्यातासंख्यातकराशिर्व्यवस्थाप्यते / तेषां च राशीनां परस्परमभ्यासे कृते सति यावान् राशिः संभवति तावानेकरूपहीनः सन्नुत्कृष्टमसंख्यातासंख्यातकं भवति / अन्ये पुनरेवमाहुः-जधन्यासंख्यातासंख्यातकराशेर्वगर्गो विधीयते / वर्गितस्यापि च तस्य राशेः पुनरन्यो वर्गो विधीयते / ततः