________________ 23 ] पडश तिनाम्नि चतुर्थं कर्मग्रन्थे स्थितपल्यापूरणरिक्तीकरणल धैकेकसर्पपेर्यदा शलाकापल्य आपूरितो भवति / पूर्वपरिपाट्या चानवस्थितपल्यस्तदा शलाकापल्यमुत्पाट्य प्राक्तनानवस्थितपल्यचरमसर्पपाक्रान्ताद्वीपात्समुद्राद्वा परतः प्रतिद्वीपं प्रतिसमुद्रं चैकैकं सर्पपं प्रक्षिपेद् यावदसौ निलेंपो भवति / ततः प्रतिशलाकापल्ये सर्वपरूपा द्वितीया शलाका प्रक्षिप्यते / ततोऽनवस्थितपल्यमुत्पाट्यानन्तररिक्तीकृतशलाकापल्यचरमसर्वपाक्रान्तवीपात्समुद्राद्वा परतः पूर्वक्रमेण द्वीपसमुद्रेवेक सर्पपं प्रक्षिपेद् यावदसौ निष्ठितो भवति / ततः पुनरपि शलाकापल्ये सर्वपरूपा शलाका प्रक्षिप्यते, यत्र चासो द्वीपे समुद्रे वा निष्ठितस्तावत्प्रमाणविस्तरात्मकमनवस्थितप न्यं सर्पपेरापूर्य ततः परतः पूर्वक्रमेण द्वीपसमुद्रेवेकैकं सर्षपं प्रक्षिपेद् यावदसौ निष्ठितो भवति / ततः शलाकापल्ये द्वितीया शलाका प्रक्षिप्यते / एवमनेन क्रमेण तावद्वक्तव्यं यावत्योऽपि प्रतिशलाकापल्यशलाका पल्यानवस्थितपल्याः परिपूर्णमापूरिता भवन्ति / ततः प्रतिशलाकापल्यमुत्पाट्य निष्ठितस्थानात्परतः प्रतिद्वीपं प्रतिसमुद्रमेबैकं सर्पपं प्रक्षिपेद् यावदसौ निष्ठितो भवति / ततो महाशलाकापल्ये एका सर्वपरूपा शलाका प्रक्षिप्यते / ततः शलाकापल्यमुत्पाद्य प्रतिशलाकापल्यगतचरमसर्पपाक्रान्ताद्वीपात्समुद्राद्वा / परतः प्रतिद्वीपं प्रतिसमुद्र मेकैकं सर्पपं प्रक्षिपेद् यावदसौ निष्ठितो भवति / ततः प्रतिशलाकापल्ये एका शलाका प्रक्षिप्यते / ततोऽनवस्थितपल्यमुत्पाटयेत् , उत्पाट्य च शलाकापल्यगतचरमसर्पपाक्रान्ताद्वीपात्समुद्राद्वा परतो द्वीपसमुद्रेष्वकै सर्पपं प्रक्षिपेत् . तावद्गच्छेद् यावदसौ निःशेषतो रिक्तीभवति / ततः शलाकापल्ये प्रथमा शलाका प्रक्षिप्यते / ततोऽनन्तरोक्तानवस्थितपल्यगतचरमसर्षपाक्रान्तो द्वीपः समुद्रो वा यस्तत्पर्यन्तविस्तरात्मकोऽनवस्थितपल्यः कल्पयित्वा सर्पपेरापूर्यते / ततस्तमुत्पाटय ततो निष्ठितस्थानात्परतो द्वीपसमुद्रध्वे के सषपं प्रक्षिपेद् यावदसौ निष्ठितो भवति / ततो द्वितीया शलाका शलाकापल्ये प्रक्षिप्यते / एवं शलाकापल्यः पूरणीयः / एवमापूरणोत्पाटनप्रक्षेपपरम्परया तावद्वक्तव्यं यावन्महाशलाकापल्यप्रतिशलाकापल्यशलाकापल्यानवस्थितपल्याः सर्वेऽपि परिपूर्णशिखायुक्ताः समारिता भवन्ति / अत्र च यावन्तोऽनवस्थितपल्यशलाकापल्यप्रतिशलाकापल्यसषपप्रक्षेपव्याप्ता द्वीपसमुद्रा यावन्तश्च चतुष्पल्यसपा एतावत्प्रमाणो राशिरेकरूपोन उत्कृष्टं संख्यातं भवति / तदुक्तम्-"पढमतिपल्लुम्हरिया. दीवुदहीपल्लचउसरिसवा य / सम्वोवि एस रासी, रूवूणो परमसंखेजं // 1 // " इति / सिद्धान्ते च यत्र कुत्रचित्संख्यातग्रहणम् , तत्र सर्वत्रापि जघन्योत्कृष्टापान्तरालवतिमध्यमं संख्यातं द्रष्टव्यम् / तदुक्तमनुयोगद्वारचूर्णी सिद्धान्ते-"जत्थ जत्थ संखेजगगहणं तत्थ तत्थ सव्वत्थ अजहण्णमणुक्कोसयं दहव्वं" इति / उक्त सङ्ख्यातं, साम्प्रतमसङ्ख्यातकमुच्यते / तत्तु विधा, परीतासङ्ख्यातकं युक्तासङ्ख्यातकं असङ्ख्यातासङ्ख्यातकं च / पुनरप्येकैकं त्रिधा, जघन्यं मध्यमं उत्कृष्टं च / तत्र जघ