________________ भव्या-भत्र्ययोरल्पबहुत्वं सङ्ख्यास्वरूपञ्च (337 तत्र सङ्खयानं त्रिधा, जघन्य मध्यमुत्कृष्टं च / तत्र जघन्यं द्वौ एकस्य एकत्वादेव गणनागोचरातिकान्तत्वात् / मध्यमं संख्या त्रिप्रभृति यावदेकरूपहीनतया उत्कृष्ट सङ्ख्यातं न भवति / तबोत्कृष्ट नवम्-इह जम्बूद्वीपप्रमाणा अधस्ताद्योजनसहस्रमवगाढा उपरिष्टादष्टयोजनोच्छ्तिचतुर्दादशोपर्यधोविस्तृतप्राकारतदुपरिपञ्चधनुःशत विस्तृतद्विगव्यूतोच्छ्तिवेदिकान्तसहिताश्चत्वारः पल्याः कल्प्यन्ते / तत्र प्रथमोऽनवस्थितपल्यः / द्वितीयः शलाकापल्यः / तृतीयः प्रतिशलाकापल्यः / चतुर्थो महाशलाकापल्यः / प्रथमपल्यश्चानवस्थितनामा सशिखाकः सर्पपैरापूर्यते, यावदेकोऽप्यन्यः सर्पपस्तत्र प्रक्षिप्तः सन् नावस्थातु शक्नोति / ततोऽसत्कल्पनया कश्वनापि देवो वा दानवो या तमनवस्थितं पल्यं वामकरतले धृत्वैकं सर्पपं द्वीपे प्रक्षिपेद् एकं समुद्रे पुनरप्येकं द्वीपे एक समुद्र, एवं तावत्प्रक्षेपो वाच्यो यावदसावनवस्थितपल्यो निःशेषतो निष्ठितो भवति, तत एकोऽनवस्थितपल्यसत्कसर्पपेभ्योऽन्य एव सर्षपः शलाकापल्ये प्रक्षिप्यते, ततो यत्र द्वीपे समुद्रे वाऽसौ अजवस्थितपल्यो निष्ठां गतः, तदन्तां ये द्वीपसमुद्रास्तावत्प्रमाणः पुनरन्यः पल्यः परिकल्प्यते / सोऽप्यधोयोजनसहस्रमवगाढ उपरिष्टायथोक्तजगतीवेदिकापरिकलितः सशिखाका सर्पपेरापूर्यते / ततस्तमुत्पाट्य यस्मिन् द्वीपे समुद्रे वा प्रथमः पल्यो निष्ठितस्ततः परतो द्वीपसमुट्रेप्वकैकं सर्पपं प्रक्षिपेत्तावद्यावदसौ निलेपो भवति / ततः शलाकापल्ये द्वितीया सर्षपरूपा शलाका प्रक्षिप्यते / अन्ये त्वाहुः-एपेव प्रथमा शलाकेति / तत्वं पुनः केवलिनी विदन्ति / ततो यस्मिन द्वीपे समुद्रे वा स एष द्वितीयः पल्यो निष्ठितरतदन्ता मूलतः सर्वेऽपि ये द्वीपसमुद्रास्तावत्प्रमाणः पुनरन्यः पल्यः परिकल्प्यते, पूर्ववत्सर्षपैश्चापूर्यते / ततस्तं तावत्प्रमाणं पल्यमुत्पाठ्य ततो निष्ठितस्थानात्परतो द्वीपसमुद्रेष्वेकैकं सर्पपं प्रक्षिपेद् यावदसौ निष्ठितो भवति / ततस्तृतीया सर्षपरूपा शलाका शलाकापल्ये प्रक्षिप्यते / एवमनेन क्रमेण पुनः पुनरनवस्थितपल्यसर्षपाऽऽपूरणरिक्तीकरणलब्धैकेकसर्पपरूपाभिः शलाकाभिः शलाकापल्यो यथोक्तप्रमाणः सशिखाकस्तावदापूरयितव्यो यावत्तत्रैकोऽप्यन्यः सर्पषो न मातीति / ततः पूर्वपरिपाट्यागतोऽनवस्थितः पल्यः सर्पपैरापूरणीयः / ततः शलाकापल्यं वामकरतले कृत्वा पूर्वानवस्थितपल्यचरमसपाक्रान्तावीपात्समुद्राद्वा परतः प्रतिद्वीपं प्रतिसमुद्रं त्वेकैकं सर्वपं प्रक्षिपेद् यावदसौ निष्ठितो भवति / ततः प्रतिशलाकापल्ये सर्पपरूपा प्रथमा प्रतिशलाका प्रक्षिप्यते / ततोऽनन्तरोक्तोऽनवस्थितपल्य उत्पाट्यते / ततः शलाकापल्यचरमसर्षपाक्रान्ताद्वीपात्समुद्राद्वा परतः पूर्वक्रमेण द्वीपसमुद्रेध्वेकैकं सर्षपं प्रक्षिपेद् यावदसौ निःशेषतो निष्ठितो भवति / ततः शलाकापल्ये पुनरपि सर्पपरूपा एका शलाका प्रक्षिप्यते / ततोऽनन्तरोक्तानवस्थितपल्यचरमसर्षपाक्रान्तो द्वीपः समुद्रो वा यस्तदन्तमनवस्थितपल्यं सर्पपैर्भूत्वा ततः परतः पुनरप्येकैकं सर्षपं प्रतिद्वीपं प्रतिसमुद्रं च प्रक्षिपद् यावदसौ निष्ठितो भवति / ततो द्वितीया शलाका शलाकापल्ये प्रक्षिप्यते / एवमपरापरानव