________________ 636 ] पडशीतिनाम्नि चतुर्थ कर्मग्रन्थ केषुचिदेव च मनुष्यस्त्रीपु सेषु कर्मभूमिजेषु तिर्यक्सीपु सेषु च केषुचित्सङ्ख्यातवर्षायुष्केषु शुक्ल लेश्यासंभवात् / ततः सङ्ख्य यगुणाः पद्मलेश्यावन्तः, सनत्कुमारमाहेन्द्रब्रह्मले कदेवेषु उक्तस्वरूपेषु च मनुष्यतिर्यक्षु पद्मलेश्याभावात् , सनत्कुमारादिदेवानां च लान्तकादिदेवेभ्यः सङ्खये यगुणत्वात् / तेभ्योऽपि तेजोलेश्यावन्तः सङ्खये यगुणाः, सौधर्मशानादिदेवेषु केषुचिच्च तिर्यमनुष्येषु तेत्रोलेश्यासद्भावात् , तेषां च सकलपद्मलेश्यांसहित तर्यगादिप्राणिगणापेक्षया संख्येयगुण वात् / ततः कापोतलेश्यावन्तोऽनन्तगुणाः, अनन्तकायिकेष्वपि कापोतलेश्यासद्भावात् / ततो विशेषाधिका नीललेश्यावन्तः, नारकादीनां तल्लेश्यावतां तत्र प्रक्षेपात् / ततोऽपि विशेषाधिकाः कृष्णलेश्यावन्ता, भूयसां तल्लेश्यासद्भावात् / / 61 / / थोवा जहन्नजुत्ताऽणतयतुल्लत्ति इह अभव्वजिया। . तेहिंतोऽणंतगुणा, भव्या णिव्याणगमणरिहा // 62 / / (हारि०) व्याख्या-स्तोका इहात्र विचारे वर्तन्ते / क एते ? अभैव्यजीवा मुक्तिगमनायोग्यजन्तवः, किं परिमाणाः ? जघन्यं च तद्युस्तानन्तकं च जघन्ययुक्तानन्तकं सिद्धान्तप्रसिद्धम् , तेन तुल्याः समा जघन्ययुक्तानन्तकतुल्याः / इह युक्तानन्तकपदे स्थानाशून्यार्थ कांचिद्भावना लिख्यते-तत्र जम्बूद्वीपप्रमाणशलाकाप्रतिशलाकामहाशलाकाख्यपल्यत्रयमनवस्थितचतुर्थपल्येन भ्रियते, एकैकभरणपूर्वकं यावच्चत्वारोऽपि पल्या भृता एकशलाकोना भवन्ति तावत्संख्यातमुत्कृष्ट भवति / तत एकशलाकाक्षेपे परीतासंख्यातं जधन्यं स्यात् 1 / एवमनेकप्रक्षेपर्वगिः तसंवर्गितन्यायेन च मध्यमपरीतासंख्यातम् 2 / उत्कृष्टपरीतासंख्यातं च 3 / एवं जघन्यादिभेदत्रयेण युक्तासंख्यातम् 3 / एवं भेदत्रयेणाऽसंख्यातासंख्यातं भवति 3 / एवमसंख्यातपदस्थानेऽनन्तपदं वाच्यम् / ततोऽनन्तेऽपि नवभेदा जाताः 9 / प्रक्षेपादिकं सर्व जीवसमासादिग्रन्थेभ्योऽवसेयम् / वचनमात्रमत्र लिखितमिति / किन्त्वनन्तानन्तकमुत्कृष्टं न कथंचित्पूर्यते प्रस्तुते त्वभव्या युक्तामन्तकप्रथमभेदसमा मन्तव्याः / इतिशब्दो वाक्यार्थसमाप्तौ / इहशब्दो योजित एव / तेभ्योऽनन्तगुणा भव्याः / कीदृशा भव्याः 1 'निर्वाणगमनाहीः' निवृत्तियानयोग्याः / इति गाथार्थः // 6 // इति भव्येष्वल्पबहुत्वमुक्तम् / तथा (मल०) 'इह' अस्मिन् जगति भव्यापेक्षयाऽभव्यजीवाः स्तोकाः कुतः ? इत्याह-'जह नजुत्ताणतयतुल्लत्ति हेतावियं प्रथमा / ततोऽयमर्थः-यतोऽभव्यजीवा जघन्ययुक्तानन्तकतुल्या इति तस्माद्भव्यजीवापेक्षया ते स्तोकाः / अथ किमिदं जघन्ययुक्तानन्तकं नाम 1; उच्यते, अनन्तसङ्ख्याविशेषः, स च सङ्ख्यातासङ्ख्यातरूपसङ्ख्याविशेषप्ररूपणामन्तरेण न प्ररूपयितु शक्यते, एकादिप्ररूपणामन्तरेण शतादिसङ्ख्यावत् , तत आदितः कथयितुमारम्यते /