________________ ज्ञान-संयम-दर्शन-लेश्यामार्गणास्वल्पबहुत्वम् [ 235 क्त्वेन प्रा यमाणत्वात् / तेभ्योऽपि देशयतयोऽसङ्ख्यातगुणाः, असङ्ख्यातानां तिरश्चा देशविरतिसंभवात् / तेभ्योऽप्ययताः संयमहीना आद्यगुणस्थानकचतुष्टयवतिनोऽनन्तगुणाः, मिथ्यादृशामनन्तानन्तस्वात् / 'संखेज गुणा चउरो' इति चत्वारः परिहारविशुद्धिकयथाख्यातच्छेदोपस्थानसामायिकवन्तः क्रमेण सङ्खथे यगुणाः शेपाक्षरगमनिका सुज्ञाना / इति // 56 / / इय ओहिचक्खुकेवलअचक्खुदंसी कमेण विन्नेया। थोवा अरसंखगुणा, अणंतगुणिया अणंतगुणा // 60 // (हारि०) व्याख्या-इति' अमुनोल्लेखेन विज्ञेया इति संवन्धः, पदावयवे पदसमुदायो. पचारात् / अवधिदर्शनचक्षुर्दर्शनकेवलदर्शनाचक्षुर्दर्शनिनः, 'क्रमेण' भणितपरिपाट्या 'विज्ञयाः' ज्ञातव्याः / कथम् ? स्तोका अवधिदर्शनिनः / ततोऽसंख्यगुणाश्चक्षुर्दर्शनिनः चतुरिन्द्रियप्रमुखचक्षुष्मतामसंख्यगुणत्वात् / ततोऽनन्तगुणिताः केवलदर्शनिनः, सिद्धानामनन्तत्वादेव / ततोऽनन्तगुणा अचक्षुदर्शनिनः, सर्वजीवव्यापित्वादचक्षत र्शनस्य / तदुक्तम्-"ज्ञानं सम्यग्दृष्टदर्शनमथ भवति सर्वजीवानाम् / इति भावना / " इति गाथार्थः // 60 // इति दर्शनेबल्पबहुत्वमुक्तम् / तथा (मल०) 'इतिः' एवं वक्ष्यमाणलक्षणेन प्रकारणावधिचक्षाकेवलाचक्षदर्शनिनः क्रमेण विज्ञेयाः / केन प्रकारेण ? इत्याह-'थोवा' इत्यादि, स्तोका अवधिदर्शनिनः, सुरनारकाणां नरतिरश्वां च केषांचिदवधिदर्शनसंभवात् / तेभ्यश्चक्षुर्दशनिनोऽसङ्ख्यातगुणाः, चतुरिन्द्रियादीनामपि चक्षुदेशनिनां तत्र प्रक्षेपात् / तेभ्योऽनन्तगुणा, केवलदर्शनिनः, सिद्धानां तेभ्योऽनन्तगुणत्वात् , तेषां च केवलदर्शनयुक्तत्वात् / तेभ्योऽप्यनन्तगुणा अचक्षुर्दर्शनिनः, सर्वसंसारिजीवानां सिद्धेभ्योऽनन्तगुणत्वात् , तेषां च नियमादचक्षदर्शनोपेतत्वात् / इति // 6 // सुका पम्हा तेऊ, काऊ नीला य किण्हलेसा य। थोवा दो संखगुणाऽणंतगुणा दो विसेसहिया // 6 // (हारि०) व्याख्या-इह गुणगुणिनोरभेदोपचारादेतल्लेश्यावन्तो गृह्यन्ते / ततः शुक्ललेश्यावन्तः स्तोकाः, ततः पद्मतेजोलेश्यावन्तो संख्येयगुणौ द्वौ प्रत्येकम् / ततोऽनन्तगुणाः कापोतलेश्यावन्तः कापोतलेश्याया अनन्तकायिकेष्वपि सद्भावात् / ततो द्वावुभौ राशी विशेषाधिको / 'नोलाश्च' नीललेश्यावन्तः कृष्णलेश्याश्च / तत्र नीललेश्याधिक्यं चतुर्थनरके सद्भावात् / कृष्णल श्याधिक्यं षष्ठसप्तमनरकसद्भावात् / इति गाथार्थः // 61 / / इति लेश्यास्वल्पबहुत्वमुक्तम् / तथा(मल०) स्तोकाः शुक्ललेश्यावन्तः, वैमानिकेष्वेव देवेषु लान्तकादिष्वनुत्तरसुरपर्यवसानेषु /