________________ 234 ] षडशीतिनाम्नि चतुर्थ कर्मग्रन्थे द्वावपि तुल्यौ, मतिश्रुतज्ञानयोः परस्परनान्तरीयकत्वात् / तथा च सूत्रम्-'जत्थ मइनाणं तत्थ सुयनाणं, जत्थ सुयनाणं तत्थ मइनाणं / दोवि एयाइं अन्नान्नमणुगयाई" इति // 5 // विभंगिणो असंखा, केवलनाणी तओ अणंतगुणा / तत्तोऽणतगुणा दो, मइसुयअन्नाणिणोतुल्ला // 58 // (हारि०) व्याख्या-वक्ष्यमाणतच्छब्दस्यात्रापि योगाततः पूर्वगाथोक्तमतिश्रुतज्ञानिभ्यः सकाशाद्विभङ्गिनोऽसंख्याः, मिथ्यादृष्टिसुरादीनामसंख्यगुणत्वात् / केवलज्ञानिनस्ततोऽनन्तगुणाः सिद्धानामानन्त्यात् / ततोऽनन्तगुणो द्वौ मतिश्रुताज्ञानिनो, एतदज्ञानद्वयवतां हि मिथ्यादृष्टयादीनामनन्तगुणत्वात् / 'तुल्यो' समौ स्वस्थान इति शेषः / इति गाथार्थः // 58|| इति ज्ञानेष्वल्पबहुत्वमुक्तम् / तथा (मल०) तेभ्यश्च मतिज्ञानिश्रुतज्ञानिभ्यः सकाशाद्विभङ्गज्ञानिनोऽसङ्ख्यातगुणाः, मिथ्यादृष्टिसुरादीनां विभङ्गज्ञानवतां तेभ्योऽसङ्ख्यातगुणत्वात् / ततोऽपि च विभङ्गज्ञानिभ्यः सकाशाकेवलिनोऽनन्तगुणाः, सिद्धानां तेभ्योऽनन्तगुणत्वात् , तेषां च केवलज्ञानयुक्तत्वात् / तेभ्योऽपि च केवलज्ञानिभ्यः सकाशादनन्तगुणाः मत्यज्ञानिश्रुताज्ञानिनः, सिद्धेभ्यो वनस्पतिकायिकानामनन्तगुणत्वात् , तेषां च मिथ्यादृष्टितया मतिश्रुताज्ञानयुक्त्तत्वात् / एतौ द्वावपि मत्यज्ञानिश्रुताज्ञानिनौ स्वस्थाने चिन्त्यमानौ तुल्यौ, मत्यज्ञानश्रुताज्ञानयोः परस्परमावनाभाविन्यात्।।५८।। सुहुमपरिहारअहखायछेयसामइयदेसजइअजया। पर थोवा संखेजगुणा, चउरो अस्संखणंतगुणा // 59 // (हारि०) व्याख्या-सूचकत्वात्सूत्रस्य सूक्ष्मसंपरायपरिहारविशुद्धिकयथाख्यातच्छेदोपस्थापनीयसामायिकदेशयत्ययताः क्रमेणेति प्रक्रमः / प्रथमाः स्तोंकाः / ततः संख्येयगुणाश्चत्वारः / ततो देशयतयो गुणशब्दस्य प्रत्येकमभिसंबन्धादसंख्यगुणाः असंख्यगुणत्वादेशविरततिरश्चाम् / ततोऽनन्तगुणा अयताः, आद्यगुणस्थानकचतुष्टयवर्त्यसंयमिनः / भावना पूर्ववत् / इति गाथार्थः / / 5 / / इति संयमेष्वल्पबहुत्वमुक्तम् / तथा (मल०) सर्वस्तोकाः सूक्ष्मसंपरायसंयमिनः, शतपृथक्त्वमात्रसंभवात् / तेभ्यः सङ्खये यगुणाः परिहारविशुद्धिकाः, सहस्रपृथक्त्वसंभवात् / तेभ्योऽपि सङ्खथे यगुणा यथाख्यातचारित्रिणः, कोटीपृथक्त्वेन प्राप्यमाणत्वात् / तेभ्योऽपि च च्छेदोपस्थापनचारित्रिणः सङ्ख्य यगुणाः, कोटीशतपृथक्त्वेन लभ्यमानत्वात् / तेभ्योऽपि सामायिकसंयमिनः सङ्ख्थे यगुणाः, कोटीसहस्रपृथ