________________ इन्द्रिय काय वैद-कपाय-ज्ञानमार्गणास्वल्पवहुस्वम [ 233 देवोओ पन्नत्ता, जिणेहि जियरागदोसेहि // 2 // ' ततः स्त्रीभ्यो नपुसकान्यनन्तगु. णानि / अनन्तत्वभावना पूर्ववत् / इति वेदेष्वल्पबहुत्वमुक्तम् / तथा मानिनः, क्रोधवन्तो, मायिनो, लोभवन्तः क्रमेण विशेषाधिकाः, अयमर्थः-स्तोका मानवन्त इत्यागमे भणनात्स्तोका इति सामर्थ्यलभ्यम् / शेपा भणितक्रमेण विशेषाधिका ज्ञेयाः / सामान्येन चत्वारोऽप्यनन्ताः, अनन्तकायिकादिष्वेतचतुष्कपायसद्भावात् / इति कपायेष्वल्पबहुत्वमुक्तम् / इति गाथार्थः // 56 // तथा (मल०) स्त्र्यादिभ्यः सकाशात्पुरुषाः रसोका इति सामर्थ्याल्लभ्यते, अन्यथा तेभ्यः स्त्रीणां सङ्ख्यातगुणत्वं नोपपद्यते, पुरुषेभ्यः सकाशामियः संख्यातगुणाः। उक्तंच-"तिगुणा तिरुवअहिया, तिरियाणं इत्थिया मुणेयध्या / सत्तावीसगुणा पुण मणयाणं तद. हिया चेव // 1 // वतीसगुणा बत्तीसरूवअहिया य तह य देवाणं / देवीओ पण्णत्ता, जिणेहि जियरागदीसेहिं // 2 // " स्त्रीभ्यच नपुसका अनन्तगुणाः, अनन्तगुणता च वनस्प, तिकायापेक्षया द्रष्टव्या / 'माणी' इत्यादि सर्वस्तीका मानिनः, मानपरिणामकालस्य क्रोधादिपरिणामकालापेक्षया सर्वस्तोकत्वात् / तेभ्यः क्रोधवन्तो विशेषाधिकाः, क्रोधपरिणामकालस्य मानपरिणामकालापेक्षया विशेषाधिकत्वात् / नेभ्योऽपि मानिनो विशेषाधिकाः, भूयस्त्वेन जन्तुना प्रभूतकालं च मायाबहुलत्वात् / ततोऽपि विशेषाधिका लोभवन्तः, सर्वेषामपि प्रायः संसारित जीयानां सहा परिग्रहाद्याकाङ्क्षासद्भावात् // 56 / / / मणपजविणो 'थोवा, ओहिण्णाणी तओ असंखगुणा। मइसुयनाणी तत्तो, विसेसअहिया समा दोवि // 57 // (हारि०) व्याख्या-मनःपर्यवज्ञानिनः स्तोकाः, अवधिज्ञानिनस्ततोऽसंख्यगुणाः, असं. व्यत्वात्सम्यग्दृष्टिदेयादीनाम् / मतिश्रुतज्ञानिनस्ततो विशेषाधिकाः, अवधिरहितसम्यग्दृष्टितिर्यः नरप्रक्षेपात् / स्वस्थाने पुनः 'समी' तुल्यौ द्वार्वाप राशी / इति गाथार्थः / / 7 / / तथा (मल०) मनःपर्यायज्ञानिनः शेषज्ञान्यपेक्षया स्तोकाः, तद्धि गर्भव्युत्क्रान्तमनुष्याणां तत्रापि संयताामप्रमत्तानां विविधामोषध्यादिल.ब्धयुक्तानामुपजायते / यत उक्तम्-"तं संजयरस सबप्पमायरहियरस विविहरिहिमतो।” इत्यादि / ते च स्तोका एव, सङ्ख्यातत्वात् / तेभ्योऽसङ्खयेयगुणा अवधिज्ञानिनः, सम्यग्दृष्टिदेवादीनामवधिज्ञानयुक्तानां तेभ्योऽसंख्यातगुणत्वात् / 'ततः' अवधिज्ञानिभ्यः सकाशान्मतिश्रुतज्ञानिनो विशेषाधिकाः, अवधिज्ञानरहितसम्यग्दृष्टिनरतिर्यप्रक्षेपात् / एतौ च मतिज्ञानिश्रुतज्ञानिनौ स्वस्थाने चिन्त्यमानी १“थेवा ओहिन्नापी" इत्यपि पाठः /