________________ 232 ] पडशीतिनाम्नि चतुर्थे कर्मग्रन्थे चतुरिन्द्रियतिर्यग्योनिपञ्चेन्द्रिया अविशेषेण सूत्रे निर्दिष्टाः / तथा चोक्तं तत्र यथोक्तरूपद्वीन्द्रियपरिमाणाभिधानानन्तरम्-"जहा बेइंदियाणं तहा तेइदियाणं चरिंदियाण वि भाणियव्व, पंचिंदियतिरिक्वीणियाणंपि" इति / तथापि सूचिपरिमाणहेत्वसङ्ख्यातरूपसङ्ख्याया बहुभेदत्वान्न यथोक्तविशेषाधिकत्वाभिधानव्याघातः / अत एव च हेतोस्तिर्यग्योनिपञ्चेन्द्रियेषु द्वीन्द्रियादितुल्यतया सूत्रेऽभिहितेष्वपि तत्रापि नरनिरयदेवप्रक्षेपेऽपि पञ्चेन्द्रियाचतुरिन्द्रियादिभ्यः स्तोका एव द्रष्टव्याः / तदुक्तम्-पचिंदिया य थोषा,विवजएण वियला विसेसहिया" इति द्वीन्द्रियेभ्योऽपि चेकेन्द्रिया अनन्तगुणाः, वनस्पतिकायजीवराशेरनन्तानन्तत्वात् / 'मस तेउ' इत्यादि सोत्तरगाथार्द्धम् / सा द्वीन्द्रियादयः पूर्वनिर्दिष्टसंख्याकाः, ते तेजस्कायिकादिभ्यः सकाशात्स्तोकाः, तेभ्यः पुनस्तेजस्कायिका असंख्यातगुणाः, तेषां सूक्ष्मवादरभेदभिन्नानामसंख्येयलोकाकाशप्रदेशराशिप्रमागत्वात् तेभ्यः पृथ्वीकायिका विशेषाधिकाः, तेभ्योऽप्कायिका विशेषाधिकाः, तेभ्योऽपि वायुकायिका विशेषाधिकाः / यद्यपि चैतेषामपि पृथ्वीकायिकादीनामसंख्येयलोकाकाशप्रदेशराशिप्रमाणतया सूत्रेऽविशेषेण निर्देशः कृतः / तथा चोक्तम्-जहा पुढविकाइयाणं एवं आउकाइयाणं " इत्यादि / तथाऽपि लोकानामसंख्यातत्वस्यानेकभेदत्वादिहैव विशेषाधिकत्वाभिधानेऽपि न कश्चिदोषः / उक्तं च-“योवा य तसा तत्तो, नेउ असंखा तओ विसेसहिया / कमसो भूदंगवाऊ, अकायहरिया अणंतगुणो // 1 // " 'अकाय' इति सिद्धाः, तथा तेभ्यो वायुकायिकेभ्यो हरितकाया अनन्तगुणाः, अनन्तलोकाकाशप्रदेशराशिप्रमाणत्वात् / 'मणवयण' इत्यादि / मनोयोगिनः स्तोकाः, संज्ञिपञ्चेन्द्रियाणामेव मनोयोगित्वात् / तेभ्यश्च वाग्योगिनोऽसङ्ख्थातगुणाः, द्वीन्द्रियादीनामप्यसंज्ञितिर्यपञ्चेन्द्रियपर्यन्तानां वाग्योगिनां मनोयोगिभ्योऽसङ्ख्यातगुणानां तत्र प्रक्षेपात् / वाग्योगिभ्योऽपि काययोगिनोऽनन्तगुणाः, वनस्पतिकायिकानामप्यनन्तानन्तानां तत्र प्रक्षेपात् // 54 // 55 // पुरिसेहिंतो इत्थी, संखेनगुणा नपुसणंतगुणा। . माणी कोही 'मायी, लोही कमसो विसेसहिया // 56 // (हारि०) व्याख्या-पुरुषाः स्तोका इति सामर्थ्याल्लभ्यते, ततः पुरुषेभ्यः स्त्रियः संख्येय. गुणाः / तथा चागमः-“देवेहितो बत्तीसगुणाओ देवीणो नरेहितो सत्तावीसगुणाओ नारीओ, तिरिएहितो तिगुणाओ तिरिच्छीओ किंचि अहियाओ।" इति / अत्रार्थे गाथे 'तिगुणा तिरूवअहिया, तिरियाणं इत्थिया मुणेयव्वा / सत्तावोसगुणा पुण; मणुयाणं तदहिया चेव // 1 // षत्तीसगुणा बत्तीसख्यअहिया य तह य देवाणं / 1 "माई लोभी" इत्यपि पाठ।