________________ गती-न्द्रिय-कायमार्गणास्वल्पबहुत्वम् [ 231 षट्पञ्चाशदधिकशतद्वयप्रमाणस्य प्रथमं वर्गमूलं षोडश, द्वितीयं चत्वारि, तृतीये द्वे, तच्च तृतीयं वर्गमूलं द्वितीयेन वर्गमूलेन चतुष्टयलक्षणेन गुण्यते ततोऽष्टौ भवन्तिः एष तृतीयवर्गमूलस्य घनः / अङ्कस्थापना-२५७ अर य घनः 8 / एवं प्रागपि वर्गमूलघनभावना द्रष्टव्या / तेभ्योऽपि च देवेभ्यस्तिय-: श्चोऽनन्तगुणाः तत्रानन्तसंख्योपेतस्य वनस्पतिकायस्य सद्भावात् // 53 // . तदेवं गतिष्वल्पबहुत्वमभिधाय, साम्प्रतमिन्द्रियद्वारे तदभिधित्सुराह पणचउतिदुएगिंदी, थोवा तिनि अहिया अणंतगुणा। तसतेउपुढविजलवाउहरियकाया पुण कमेणं // 54 // थोग असंखगुणिया, तिनि विसेसाहिया अणंतगुणा। मंणवयणकायजोगी, थोवासंखगुणणंतगुणा // 55 // (हारि०) व्याख्या-सूचकत्वात्सूत्रस्य पश्चचतुरिद्वय केन्द्रियाः, अत्र द्वन्द्वगर्भो बहुबीहिः / तत्र पञ्चेन्द्रियाः स्तोकाः, तेभ्यश्चतुरिन्द्रिया अधिकाः, तेभ्यस्त्रीन्द्रिया अधिकाः, ततो द्वीन्द्रियां अधिकाः, तेभ्य एकेन्द्रिया अनन्तगुणाः / अनन्तत्वभावना प्राग्वत् / इतीन्द्रियेष्वल्पबहुत्वमुक्तम् / तथा त्रसतेजःपृथिवीजलवायुहरितकायाः, इह द्वन्द्वगर्भस्तत्पुरुषः / पुनः क्रमेजाल्पबहुत्वं वक्ष्यमाणगाथया मन्तव्यम् / इति गाथार्थः // 54 // तदेवाह (हारि०) व्याख्या-त्रसादयः प्राग्गाथापराोक्ताः / तत्र प्रसाः स्तोकाः, तेभ्यस्तेजस्काया असङ्ख्यगुणिताः, ततः पृथिवीकायिका विशेषाधिकाः, तेभ्यो जलकायिका विशेषाधिकाः, तेभ्यो वायुकायिका विशेषाधिकाः, तेम्यो हरितकायिका अनन्तगुणाः / अनन्तत्वभावना प्राग्वत् / इति कायेष्वल्पबहुत्वमुक्तम् / तथा मनोवचनकाययोगिनः क्रमेणेति प्रक्रमः / स्तोका मनोयोगिनः संज्ञेपञ्चेन्द्रियाः, तेभ्योऽसङ्ख्यगुणा वचनयोगिनो द्वीन्द्रियादयः, तेभ्योऽनन्तगुणाः काययोगिन एकेन्द्रियाः पृथ्वीप्रभृतयः / अनन्तगुणत्वभावना प्रागिव / इति योगेष्वल्पबहुत्वमुक्तम् / इति गाथार्थः // 55 // तथा (मल०) पञ्चेन्द्रियाश्चतुरिन्द्रियादिभ्यः सकाशात्स्तोकाः, तेभ्यश्चतुरिन्द्रिया विशेषाधिकाः, तेभ्योऽपि त्रीन्द्रिया विशेषाधिकाः, तेभ्योऽपि द्वीन्द्रिया विशेषाधिकाः / तत्र यद्यपि च घनीकृतस्य लोकस्य या ऊर्ध्वाधआयता एकप्रादेशिक्यः श्रेणयः असंख्यातयोजनकोटीकोटीप्रमाणाकाशप्रदेशसूचिगतप्रदेशराशिप्रमाणास्तासां यावान् प्रदेशराशिस्तावत्प्रमाणा द्वीन्द्रियत्रीन्द्रिय