________________ षडशीतिनाम्नि चतुर्थे कर्मग्रन्थे 230] बाहि उस्सप्पिणिओसप्पिणोहि अवहोरइ / आयरिओ आह, खेत्तस्स सहमत्त ओ सत्ते विमं भणियं-'सहमो य होइ कालो, तत्तो सुहमययरं हवह खेत्तं / अंगुलसेदोमित्ते, ओसप्पिणिओ असंखेजा // 1 // ' इति / " अतो निरयादिभ्यः सकाशात्स्तोका मनुष्याः, तेभ्यो नारका असंख्यातगुणाः, यतः सप्तरज्जुप्रमाणस्य घनीकृतस्य लोकस्योर्ध्वाधआयता एकप्रादेशिक्यः श्रेणयोऽङ्गुलमात्रक्षेत्रप्रदेशराशिगतप्रथमवर्गमूलधनप्रदेशराशिप्रमाणास्तासां यावान् प्रदेशराशिस्तावत्प्रमाणा नारकाः, अतस्ते नरेभ्योऽसंख्यातगुणा एव, तेभ्योऽपि देवा असंख्यातगुणाः, कथम् ? इति चेद् , उच्यते, देवा हि भवनपतिव्यन्तरज्योतिष्कवैमानिकभेदेन चतुर्विधाः / भवनपतयश्चासुरनागसुवर्णादिभेदेन दशविधाः / तत्रासुरकुमारा अपि तावद्धनीकृतस्य लोकस्य या ऊर्ध्वाधआयता एकप्रादेशिक्यः श्रेणयोऽङगुलमात्रक्षेत्रगत- . प्रदेशराशिसंवन्धिप्रथमपर्गमूलासंख्येयभागगतप्रदेशराशिप्रमाणास्तासां संबन्धी यवान् प्रदेश राशिस्तावत्संख्याकाः / एवं नागकुमारादयोऽपि प्रत्येकं द्रष्टव्याः / तथा संख्येययोजनप्रमाणाकाशप्रदेशसूचिरूपैः खण्डैर्यावद्भिर्धनीकृतस्य लोकस्य ('उपरितनाधस्तनप्रदेशरहितं मण्डकाकार) प्रतरमपहियते तावत्प्रमाणा व्यन्तराः / उक्तं च-"संखेजजोयणाणं, सहपएसेहिं भाइयं पयरं / वंतरसरेहि होरइ, एवं एकेक देणं॥१॥" इति / अस्या अक्षरगमनिका-संख्येययो. जनानां या सूचिरेकप्रादेशिकी पङ्क्तिस्तत्प्रदेशैः संख्येययोजनप्रमाणेकप्रादेशिकपवितप्रदेशरिति यावद्भक्तं प्रतरं व्यन्तरसुरैरपहियते तावद्भागलब्धराशिप्रमाणा व्यन्तरसुरा इत्यर्थः / इयमत्र भावनासंख्येययोजनप्रमाणसूचिप्रदेशाः किलासत्कल्पनया दश प्रतरप्रदेशाश्च लक्षम् , तस्य दशभिर्भागे हते लब्धाः सहस्रा दश एतावन्त इत्यर्थः / एवमुक्तेन प्रकारेण प्रतिनिकायं व्यन्तराणां भावना कार्या / न चैवं सर्वसमुदायप्रमाणनियमव्याघातप्रसङ्गः, सूचिप्रमाणहेतुयोजनसंख्येयत्वस्य वैचित्र्यादिति / तथा षट्पञ्चाशदधिकशतद्वयाङ्गुलप्रमाणैराकाशप्रदेशसूचिरूपैः खण्डैर्यावद्भिर्यथोक्तस्वरूपं प्रतरमपहियते तावत्प्रमाणा ज्योतिष्का देवाः / तदुक्तम्-छप्पन्नदोसयं. गुलसूइपएसेहि भाइयं पयरं / जोइसिएहिं हारह" इति / अत एवोक्तं सूत्रे-"वाणमतरेहिंतो संखेनगुणाजोइसिया" इति तथा वैमानिकदेवा धनीकृतस्य लोकस्य या ऊर्वाधआयता एकप्रादेशिक्यः श्रेणयोऽगुलमात्रक्षेत्रप्रदेशराशिसंबन्धितृतीयवर्गमूलधनप्रमाणास्तासां यावान् प्रदेशराशिस्तावत्प्रमाणाः / अतः सकलभवनपत्यादिसमुदायापेक्षया चिन्त्यमाना देवा नारकेभ्योऽसङ्ख्यातगुणा एव / तथा चोक्तम्-"थोवा नरा नरेहि य, असंवगुणिया हवंति नेराया। तत्तो सुरासुरेहि य, सिडाणंता तओ तिरिया // 1 // " इति / यदुक्तं तृतीयवर्गमूलधनप्रमाणा इति, तस्येयं गणितभावना-अङ्गुलमानक्षेत्रप्रदेशराशेरसत्कल्पनया 1 एतत्कोष्ठाकान्तर्वतिपाठ एक एव पुस्तक उपलभ्यते /