SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ मार्गणासु लेश्या तथा गतिमार्गणास्वल्पबहुत्वम् (226 यथासंख्येन पदयोजना कार्या, सा चैवम्-नरास्तावत् स्तोकाः 1, ततो नारका असंख्यातगुणाः 2, ततो देवा असंख्यातगुणाः 3, ततस्तियश्चोऽनन्तगुणाः 4 तत्रानन्तवनस्पतिसद्भावात् / एवमन्यत्रापि यथासंभवं वनस्पतिमाश्रित्यानन्तत्वभावना कार्या / इति गाथार्थः // 53 // इति गतिष्वल्पबहुत्वमुक्तम् / तथा- (मल०) गत्यादिषु चतुर्दशसु मार्गणास्थानेषु 'सठाणे वि' इति अपिरयधारणे स्वस्थान एव न तु परस्थाने, स्वगत'नारकाद्यपेक्षयैवेति यावत् 'अल्पबहुत्वम्' एतेभ्य एते स्तोका एते वहव इत्येवं लक्षणं भणामि, “वर्तमानसामीप्ये वर्तमानवद्वा" इति भविष्यति वर्तमाना, ततो भणामि भणिष्यामीत्यर्थः / कथम् ? इत्याह-'सामान्यतः' सामान्येन स्तोकविशेषाधिकासंख्यातादित्वरूपेण, न तु विशेषेण श्रोणिप्रतराद्याकाशप्रदेशोत्सर्पिण्यादिसमयापहारलक्षणेन, तथाऽभिधाने सति ग्रन्थगौरवापत्तितः संक्षिप्तरुचिविनेयजनोपकारानुपपत्तेः / तदेव सामान्यतोऽल्पबहुत्वमाह-'नरनिरय' इत्यादि / इह यथासंख्येन पदयोजना कर्तव्या / सा चैवम्-नरा मनुष्या निरयदेवतिर्यग्योनिभ्यः सकाशात्स्तोकाः, यतस्तैरुत्कृष्टपदवर्तिभिरपि सर्वतः सप्तरज्जुप्रमाणस्य घनीकृतस्य लोकस्योपरितनाधस्तनप्रदेशरहितमेकैकप्रदेशपङ्कितरूपं श्रेणिमात्रमप्यङ्गुलमात्रक्षेत्रप्रदेशराशिसंबन्धितृतीयवर्गमूलगुणितप्रथमवर्गमूलप्रदेशप्रमाणैरसत्कल्पनया षट्पश्चाशदधिकशतद्वयप्रमाणाङ्गुलमात्रक्षेत्रप्रदेशराशिसंबन्धिद्विकलक्षणतृतीयवर्गमूलगुणितषोडशलक्षणप्रथमवर्गमूललब्धद्वात्रिंशत्प्रदेशप्रमाणैराकाशखण्डेमनुष्यरूपस्थानीयैरपहियमाणमपि नापहियते, एकरूपहीनत्वात् / यदि पुनरेतावत्प्रमाणमेकं रूपमन्यत्स्यात् , ततः सकलाऽपि श्रोणिरपहियते / कालतश्च प्रतिसमयमेतावत्प्रमाणैरप्याकाराखण्डैरपहियमाणा श्रेणिरसंख्याताभिरुत्सर्पिण्यवसर्पिणीभिनिःशेषतोऽपहियते, कालतः सकाशात्क्षेत्रस्यात्यन्तसूक्ष्मत्वात् / उक्तं च "उक्कोसपए जे मणुस्सा भवन्ति तेसु एकमि मणुयरूवे पक्खित्ते समाणे तेहिं मणुस्सेहिं सेढी अवहीरइ / तोसे य सेढीए कालक्वित्तेहिं अवहारो मग्गिजह / कालतो ताव असंखेजाहिं उस्सपिणिओसप्पिणोहिं, खेत्तओ अंगुलपढमघग्गमूलं तइयवग्गमूलपडप्पन्न / किं भणियं होइ ? तीसे सेढीए अंगुलायए खण्डे जो पएसरासी, तस्स जं पढमवग्गमूलपदेसराशिमाणं तं तं तइयवग्गमूलपएसरासिणा पडुपाइजइ पडुप्पाइए समाणे जो पएसरासी हवइ एवइएहि खंडेहिं अबहीरमाणो अबहीरमाणी जाव भिट्ठाइ ताव मण स्सावि अवहीरमाणा निट्ठति। आह, कहमेगा सेढी एद्दहमेत्तेहिं खंडेहिं अवहोरमाणो अवहीरमाणी असंखि. 1 "नारकादिपदापेक्षया" इत्यपि / “नारकादिभेदापेक्षया" इत्यपि / /
SR No.004404
Book TitleKarmgranth tatha Sukshmarth Vicharsar Prakaran
Original Sutra AuthorN/A
AuthorVeershekharvijay
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1974
Total Pages716
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy