________________ 228 ] षडशीतिनाम्नि चतुर्थे कर्मग्रन्थे तथा (मल०) लेश्यास्तिस्रः कृष्णनीलकापोतरूपा नारकेषु विकलेन्द्रियेष्वग्निषु वायुकायिकेषु च संभवन्ति नान्याः प्रायोऽमीषामप्रशस्ताध्यवसायस्थानोपेतत्वात् / तथेन्द्रियद्वारे एकेन्द्रियेषु, कायद्वारे भूतरूदकेष्वगंज्ञिषु च प्रथमाश्चतस्रः कृष्णनीलकापोततेजोरूपा लेश्या भवन्ति / भवनपतिव्यन्तरज्योतिप्कसौधर्मशाना हि देवाः स्वस्वभवविच्युतावेतेपुत्पद्यन्ते ते च तेजोलेश्यावन्तः। जीवश्च यल्लेश्यो म्रियते अग्रेऽपि तल्लेश्य एवोपपद्यते, "जल्लेसे मरइ तल्लेसे उववजई' इति वचनात् / तत एतेषामपर्याप्तावस्थायां कियत्कालं तेजोलेश्या भवतीति // 51 // केवलजुयलअहक्खायसुहुमरागेसु सुकले सेव / लेसासु छसु सठाणं गइयाइसु छावि सेसेसु // 52 // (हारि०) व्याख्या केवलयुगलयथाख्यातसूक्ष्मरागेषु इति द्वन्द्वः, इति पदचतुष्के शुक्लैवैका लेश्या / तथा लेश्यासु षट्सु स्वस्थानम् / कृष्णलेश्यायां कृष्णलेश्या, नीललेश्यायां, नीललेश्या, इत्यादि / तथा गत्यादिषु शेषेष्वेकचत्वारिंशत्पदेषु षडपि लेश्याः / इति गाथार्थः // 52 // इति योजिता लेश्याः, इतोऽल्पबहुत्वमुच्यते (मल०) केवलयुगले केवलज्ञानकेवलदर्शनरूपे, तथा यथाख्यातसंयमे सूक्ष्मसंपरायसंयमे च शुक्ललेश्या भवति न शेषलेश्याः, केवलयुगलादावेकान्तविशुद्धपरिणामभावात् , तस्य शुक्ललेश्याऽविनाभूतत्वात् / तथा षट्सु लेश्यासु 'स्वस्थानम्' इति स्वा स्वा लेश्या भवति यथा कृष्णलेश्यायां कृष्णलेश्या इत्यादि / 'शेषेषु' च गत्यादिमार्गणास्थानकेष्वेकचत्वारिंशसंख्येषु षडपि लेश्या भवन्तीति / 52 / तदेवमुक्ता मार्गणास्थानकेषु लेश्याः, इदानीमेतेष्वेव चतुर्दशसु मार्गणास्थानेषु स्वस्थानापेक्षयाऽल्पबहुत्वमुच्यते गइयाइसु अप्पबहुं, भणामि सामन्नओ सठाणे वि। नरनिरयदेवतिरिया, थोवा दुअसंखणंतगुणा // 53 // (हारि०) व्याख्या-'गल्यादिषु' चतुर्दशस्थानेषु 'अल्पपटुत्वं' एते स्तोका एतेभ्य एते बहव इत्येवंलक्षणं 'भणामि' प्रतिपादयामि, 'स्वस्थानेऽपि' सप्रतिभेदे गत्यादौ 'सामान्यतो' देवमनुष्यादिगतिभेदानपेक्षं यथा भवति, एतदेवाह-नर' इत्यादि, अत्र