________________ मनोवचःकाययोगमार्गणासु नयमतनानात्वं मार्गणासु लेश्याश्च मागास लेण्याश्च [227 अधुना लेश्यास्तेष्वेव योज्यन्ते (मल०) तनुवाङमनस्सु 'क्रमशः' क्रमेण यानि द्विचतुरादीनि द्वादशसङ्ख्यापदानि तानि चत्वारि चत्वारि भूत्वा क्रमश एवं पृथक् पृथग् गुणस्थानकजीवस्थानकोपयोगयोगाभिधायकानि ज्ञातव्यानीत्यक्षरघटना / अस्य च नानात्वस्य निबन्धनम् / अयमभिप्रायः-प्राग्योगान्तरसहितोऽसहितो वा स्वस्त्र रूपमात्रेणेव काययोगादिविवक्षितः, तेन यत्र यथोक्तगुणस्थानकादिवक्तव्यता. सोऽप्युपपद्यते / इह तु काययोगादियोगान्तरविरहित एव विवक्ष्यते / यथा वाग्योगमनोयोगविरहितः काययोगः, मनोयोगकेवलकाययोगविरहितश्च वागयोगः, केवलकाययोगवाग्योगविरहितश्च मनोयोगः, ततः पूर्वस्मानानात्वमिति / तत्र केवलकाययोगे व मिथ्यादृष्टिसासादनलक्षणे गुणस्थानके, चत्वारि पर्याप्तापर्याप्तसूक्ष्मवादरे केन्द्रियलक्षणानि जीवस्थानकानि, त्रयो मत्यज्ञानश्रुताज्ञानाचक्षुर्दर्शनरूपा उपयोगाः, वैक्रियद्विकौदारिकद्विककार्मणलक्षणाः पश्च योगाः, केवलकाययोगो ह्य केन्द्रियेष्वेवाप्यते,तत्र च गुणस्थानकादीनि यथोक्तान्येव घटन्त इति / तथा वाग्योगे मनोयोगविरहिते द्वे मिथ्यादृष्टिसासादनलक्ष गे गुणस्थानके अष्टौ, पर्याप्तापर्याप्तद्वित्रिचतुरिन्द्रियासंज्ञिपञ्चेन्द्रिय लक्षणानि जीवस्थानानि, चत्वारश्चक्षुरचक्षुर्दर्शनमत्यज्ञानश्रुताज्ञानलक्षणा उपयोगाः, कार्मणौदारिक द्विकासत्यामृषाभाषारूपाश्चत्वारो योगाः, केवलवाग्योगो हि केवलकाययोगविरहितस्वरूपो द्वीन्द्रियादिष्वेवासंज्ञिपञ्चेन्द्रियपर्यन्तेषु संभवति नान्येषु, ततो यथोक्तान्येव गुणस्थानकादीनि तत्र भवन्ति न ऊनाधिकानि / तथा मनोयोगेऽयोगिकेवलिवर्जितानि शेषाणि त्रयोदशगुणस्थानकानि, द्वे च पर्याप्तापर्याप्तसंज्ञिपञ्चेन्द्रियलक्षणे जीवस्थानके, द्वादशाप्युपयोगाः, कार्मणौदारिकमिश्रवर्जिताच शेषास्त्रयोदश योगाः, कार्मणौदारिकमिश्रौ हि काययोगावपर्याप्तावस्थायां केवलिसमुद्धातावस्थायां वा, न च तदानीं मनोयोगोऽपर्याप्तावस्थायां मनस एवाभावात् केवलि समुद्घातावस्थायां तु प्रयोजनाभावात् / तदुक्तम् मनोवचसी तु तदा सर्वथा न व्यापारयति. प्रयोजनाभावादिति // 50 // उक्तं योगेषु नयमतनानात्वम् , साम्प्रतं मार्गणास्थानेषु लेश्या अभिधित्सुराह लेसा उ तिनि पढमा, नारगविगलग्गिवाउकाएसु / एगिदिभूतरूदगअसन्निसु पढमिया चउरो // 51 // (हारि०) व्याख्या-लेश्यास्तिस्रः प्रथमाः कृष्णनीलकापोताख्या भवन्तीति / केषु ? इत्याह-नारक १-विकला 4 ऽग्नि 5 वायुकायिकेषु 6 अत्र द्वन्द्वः इति पदपञ्चके प्रथमा एव प्रथमिकाश्चतस्रः कृष्णनीलकापोततेजस्यभिधाना भवन्ति / इति गाथार्थः // 51 //