________________ 226 ] षडशीतिनाम्नि चतुर्थे कर्मग्रन्थे (मल०) मनःपयज्ञान चक्षुर्दर्शनरहिताः शेषा दशैवोपयोगा अनाहारके भवन्ति, तुरेवकारार्थ, तदुक्तम्- "तुः स्याद्रेदेऽवधारणे" इति / अनाहारको हि विग्रहगतौ केवलिसमुद्धातावस्थायामयोग्यवस्थायां वा, न च तदानीं मनःपर्यायज्ञ नचक्षुर्दर्शनसंभव इति, उपसंहारमाह-'उवयोगा इय गहयाइसु' इति, इति एवमुक्तेन प्रकारेण गत्यादिषु मार्गणास्थानेधूपयोगा भवन्ति / साम्प्रतं योगेषु गुणस्थानकजीवस्थानोपयोगयोगानधिकृत्य मतान्तरमुपक्षिन्नाह–'नयमयणाणत्तमिणं तु जोगेसु' योगेषु मनोवाकायलक्षणेषु नयनमतेन "नयो ज्ञातुरभिप्रायः" इतिवचनात् , अभिप्रायान्तरविशेषरूपेण नानात्वमिदं वक्ष्यमाणरूपं द्रष्टव्यम् / तुर्विशेषणे, स च शेषेषु मार्गणास्थानकेषु यथाभिहितं तथैवावगन्तव्यम् / योगेषु पुनवक्ष्यमाणनयमतापेक्षयाऽन्यथाऽपीति विशेषयति // 49 // _____ तदेव नानात्वमुपदर्शयति तणुवइमणेसु कमसो, दुचउतिपंचा दुअट्टचउचउरो। तेरसदुबारतेरस, गुणजीवुवओगजोगत्ति // 50 // __ (हारि०) व्याख्या- तनुवाञ्मनस्सु 'क्रमशो' यथासंख्येन द्वि 1 चतु 2 स्त्रि 3 पश्च 4 गुण 1 जीवस्थानको 2 पयोग 3 योगा 4 इति तनौ काययोगे / तथा क्रमश एव द्वि 1 अष्ट 2 चतु 3 श्चत्वारो 4 गुण 1 जीवो 2 पयोग 3 योगाः 4 इति वाचि वाग्योगे / तथा क्रमश इत्यत्रापि संबध्यते, ततस्त्रयोदश 1 द्वि 2 द्वादश 3 त्रयोदश 4 गुण 1 जीवस्थानको 2 पयोग 3 योगाः 4 इति मनसि मनोयोगे भवन्तीत्यक्षरघटना / भावार्थो गाथाभिः 'कथ्यते "केवलतणुजोगंमी, दो गुणच उजीवआइमा हुंनि / मासुयअन्नाणदुर्ग, अञ्चल तिन्नि उवओगा // 1 // वेउविउरलजुयला 4. कम्मणजोगी य 1 पंच जोगत्ति / अमणवईए पढमा, दो गुण जिय अट्ट चउ उवरि // 2 // चक्सुअचक्खू मइसय अनाण चत्तारि हुंति अवओगा / कम्मणउरालजुयलं 2, असञ्चभासा य चउ जोगा // 2 // तेरस गुण मणजोंगे, अंतिमदो जोव पारउवओगा / तेरस जोगा यतहा, कम्मोरलमिस्स 2 वज्जत्ति 4 // 4 // " मनोयोगे नानात्वं जीवस्थानेष्वेव शेषपदत्रयाभिधानं च प्रसङ्गादिति / अत्र यन्त्रस्थापनेयम्-म / 13 / 2 / 12 / 13 मतान्तराभिधायकगाथागम्भीरार्थाऽपि सूत्रकारेण केनाप्यभिप्रायेण न विवृताव।२।८।४।४ अस्माभिश्च यथाऽवबोधं विवृता / इति गाथार्थः // 50 // गुजी। उ जो स।२।४।३५ 1 "उच्यते” इति जे० / 2 एतद्गायाचतुष्कं हस्तलिखितमूलगाथाप्रती मूलगाथातया प्रतिपादितम् /