________________ मार्गणासूपयोगाः [ 225 अन्नाणतिगअभव्वे, सासणमिच्छे य पंच उवओगा। दो दंसण तिअनाणा, ते अविभंगा असन्निम्मि // 48 // (हारि०) व्याख्या-अज्ञानत्रिकं च पूर्वोक्तमभव्यश्चेति समाहारद्वन्द्वः, तत्राज्ञानत्रिकाभव्ये, सासादनं च मिथ्यात्वं चात्रापि समाहारद्वन्द्वः, तत्र सासादनमिथ्यात्वे च, चशब्दः समु. च्चयार्थः, इति पदषट्के, किम् ? इत्याह-पञ्चोपयोगाः / कीदृशाः ? इत्याह-रे दर्शने' चक्षुर्दर्शनाचक्षुर्दर्शनलक्षणे, 'त्रीण्य ज्ञानानि' मत्यज्ञानादीनि / तथा 'ते' पूर्वोक्ताः पश्चाविभङ्गा विभङ्गवर्जिताश्चत्वार इत्यर्थः, क. 'असंज्ञिनि' मनोविज्ञानविकले / इति गाथार्थः // 48 // साम्प्रतमुपयोगानुपसंहरन् मतान्तरं दर्शयन्नाह___ (मल०) अज्ञानत्रिके मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानलक्षणे, तथाऽभव्ये, सासादने, मिथ्यात्वे च, दर्शनद्विकं चक्षुरचक्षुर्दर्शनलक्षणम् , अज्ञानत्रिकं मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानलक्षणम् , इत्येते पञ्च उपयोगा भवन्ति न शेषाः, अवदातसम्यक्त्वविरत्यभावात् / अज्ञानत्रिकादौ चावधिदर्शनं यतः कुतश्चिदभिप्रायादाचार्येण नोक्तं तन्न सम्यगवगच्छामः, सूत्रे मत्यज्ञानादावप्यवधिदर्शनस्य प्रतिपादितत्वात् / एतच्च प्रागेवानेकश उक्तम् / "ते अदिभंगा असन्निम्मि" इति त एव पूर्वोक्ताः पञ्चोपयोगा अविभङ्गा विभङ्गज्ञानविकलाः सन्तः शेषाश्चत्वार उपयोगा असंज्ञिनि संज्ञिव्यतिरिक्ते जीवे भवन्ति / यत्तु विभङ्गज्ञानं तदसंज्ञिनि नोपपद्यते, तद्धि भवप्रत्य. यतो गुणप्रत्ययतो वा जायते, न चानयोरेकतरोऽपि प्रत्ययोऽत्र घटते / इति // 48 // मणनाणचक्खुरहिया, दस उ अणाहारगेसु उवओगा। इय गइयाइसु नयमयनाणत्तमिणं तु जोगेसु // 49 // (हारि०) व्याख्या-मनःपर्यवज्ञानचक्षुर्दर्शनरहिता दशैवोपयोगाः, तुरेवकारार्थः, क ? इत्याह-अनाहारके विग्रहगतौ केवलिसमुद्धाते च यथायोगं योज्याः / तथाहि-विग्रहगतौ सम्यउदृष्टेनित्रयमवधिदर्शनं च, मिथ्यादृष्टेः सासादनस्य चाज्ञानत्रयम् , त्रयाणामप्यचक्षुर्दर्शनं तस्यानाहारकावस्थायामपि लब्धिमाश्रित्याभ्युपगमात् / इत्येवमेतेऽष्टौ केवलिसमुद्धातेऽयोगिनि गुणस्थानके च केवलज्ञानकेवलदर्शनद्विकमित्यनाहारके दशेति भावना / इति गत्यादिपूपयोगा योजिता इति शेषः इति / अत्र नयमतेन निश्चयनयाभिप्रायेणेकैकयोगापेक्षयेत्यर्थः, नानात्वं नयमतनानात्वं विशेषो योगेषु मनोवाकायरूपेषु / कीदृशं नानात्वम् ? अत आह-इदं वक्ष्यमाणम् , तुशब्दः पुनरर्थः, प्राक्तनव्याख्यापेक्षया वक्ष्यमाणव्याख्यानस्य विशेषद्योतकः / इति गाथार्थः // 46 // तदेव नानात्वमाह