________________ 224 ] षडशीतिनानि चतुर्थे कर्मग्रन्थे ___ (मल०) प्रथमेषु चतुर्यु ज्ञानेषु मतिश्रुतावधिमनःपर्यायवानलक्षणेषु प्रथमेषु च चतुर्यु संयमेषु सामायिकच्छेदापस्थापनीयपरिहारविशुद्धिकसूक्ष्मसंपरायरूपेषु, 'वेयग' इति क्षायोपशमिके औपशमिके च सम्यक्त्वेऽवधिदर्शने च चत्वारि ज्ञानानि मतिश्रुतावधिमनःपर्यायज्ञानलक्षणानि, तथा दर्शनत्रिकं चक्षुरचक्षुरवधिदर्शनलक्षणम् , इत्येते सप्त उपयोगा भवन्ति न शेषाः, तद्भावे मत्यज्ञानादीनामसंभवात् / इहाप्यवधिदर्शने मत्यज्ञानाधुपयोगप्रतिषेधो मतान्तरापेक्षया द्रष्टव्यः / अन्यथा हि मत्यज्ञानादिमतामपि सूत्रे साक्षादवधिदर्शनं प्रतिपादितमेव यथोक्तं प्रागिति / 'केवलदुमुयं अहक्खाए' इति यथाख्यातसंयमे तदेव पूर्वोक्तमुपयोगसप्तकं 'केवलद्विकयुतं' केवलज्ञानदर्शनयुतं द्रष्टव्यम् , यथाख्यातसंयमस्य सयोगिकेवल्यादावपि भावात् / तत्र च कंवलद्विकस्य भावात् / इति // 46 // नाणतिगदंसणतिगं, देसे मीसे अनाणमीसं तं / केवलदुगपणपजववज्जा अस्संजयंमि नव // 47 // (हारि०) व्याख्या-ज्ञानत्रिकदर्शनत्रिकमिति द्वन्द्वः, इति षडुपयोगाः, क्क 1 इत्याह-'देशे' देशविरतरंयमे, तथा 'मिभे' मिश्रगुणस्थानके, तदिति ज्ञानदर्शनत्रिकं मिश्रमज्ञानमिश्रम् , तथा केवलद्विकमनःपर्यायज्ञानवर्जा इह यथायोगं समासः, नवोपयोगाः. .कं ? इत्याह-'असंयते' संयमरहिते, तत्र मिश्रे उक्ता एवोपयोगाः / मिथ्यादृष्टेः सासादनस्य चाज्ञानत्रयम् , सम्यग्दृप्टेानत्रयमवधिदर्शनं च, त्रयाणामप्यचक्षुर्दर्शनं चक्षुर्दर्शनं चेति नवोपयोगभावना / इति गाथार्थः // 47 // तथा (मल०) ज्ञानत्रिकं मतिश्रुतावधिलक्षणम् , दर्शनत्रिकं चक्षुरचक्षुरवधिदर्शनलक्षणम् , इत्येते षड् उपयोगा देशविरतिसंयमे भवन्ति न शेषाः, मिथ्यात्वसर्वविरत्यभावात् 'मोसे अनाणमीसं तं' इति मिश्रे सम्यग्दृष्टौ तज्ज्ञानत्रिकं दर्शनत्रिकं चाज्ञानमिश्रं द्रष्टव्यम् / मतिज्ञानं मत्यज्ञानमिश्रम् , श्रुतज्ञानं श्रुताज्ञानमिश्रम् , अवधिज्ञानं विभङ्गज्ञानमिश्रम् / इह चावधिदर्शनमाचार्येण मतान्तरापेक्षया भणितम् / अन्यथतेष्वेव मार्गणास्थानकेषु गुणस्थानकमार्गणायाम्-"महसुय. भोहिदुगे नव अजयाई" इत्यनेन ग्रन्थेन यदुक्तं अवधिदर्शनस्यायतादीनि क्षीणमोहान्तानि नव गुणस्थानकानि भवन्तीति तद्विरुध्येत, मिश्रगुणस्थानकेऽपीदानीमवधिदर्शनस्याभिधानादिति / तथा केवलज्ञानकेवलदर्शनलक्षणकेवलद्विकमनःपर्यायज्ञानवर्जाः शेषा नवोपयोगाः 'असंयते' . संयमहीने भवन्ति, न तु केवलद्विकमनःपर्यायज्ञाने, तस्य विरतिहीनत्वात् , तेषां च विरतिनिबन्धन त्वात् // 47 //