________________ मार्गणासूपयोगाः [ 223 पदैकादशके इति / तथा केवलद्विके' केवलज्ञानकेवलदर्शनरूपे 'निजदिक' केवलज्ञाने केवलज्ञानोपयोगः, केवलदर्शने केवलदर्शनोपयोग इत्यर्थः। तथा क्षायिक सम्यक्त्वे नवोपयोगाः, कथम् ? इत्याह-'नो' नैव 'अज्ञानत्रिक' मत्यज्ञानश्रु ताज्ञानविभङ्गरूपमेतदुपयोगत्रयं विनेत्यर्थः / इति गाथार्थः // 4 // तथा (मल०)केवलद्विकेन केवलज्ञानकेवलदर्शनलक्षणेन हीनाः शेषा दशोपयोगाः कषायेषु क्रोधमानमायालोभरूपेषु, शुक्ललेश्यावर्जितासु शेषासु पञ्चसु पद्मादिलेश्यासु, अचक्षुर्दर्शने च भवन्ति, न तु केवलद्विकं कषायादिसद्भावे तस्यानुत्पादात् 'केवलदुगे नियदुगं' इति केवलद्विके केवलज्ञानदर्शनलक्षणे निजद्विकं केवलज्ञानकेवलदर्शनलक्षणं स्वकीयमुपयोगद्वयं भवति न शेषा उपयोगाः, देशज्ञानदर्शनव्यवच्छेदेनैव केवलढिकस्य सद्भावात् / एतच्च प्रागेवोक्तम् / तथा क्षायिके सम्यक्त्वे नव उपयोगा भवन्ति कुतः 1 इत्याह-'नो अनाणतिगं' इति यतस्तत्सद्भावेऽज्ञानत्रिकं न भवति, तस्य मिथ्यात्वनिवन्धनत्वात , निर्मूलतो मिथ्यात्वक्षयेण च क्षायिकसम्यक्त्वोत्पादात् , अतस्तत्र नवैवोपयोगा भवन्ति // 45 // पढमचउनाणसंजमवेयगउवसमियओहिदंसेसु / नाणवउदसणतिगं, केवलदुजुयं अहक्खाए // 46 // (हारि०) व्याख्या-ज्ञानानि च मतिज्ञानादीनि संयमाश्च सामायिकसंयमादयो ज्ञानसंयमाः, चत्वारश्च ते ज्ञानसंयमाश्च चतुर्ज्ञानसंयमाः, प्रथमाश्च ते चतुर्ज्ञानसंयमाश्च प्रथमचतुर्ज्ञानसंयमाः, प्रथमचतुर्ज्ञानानि प्रथमचतुःसंयमाश्चेत्यर्थः, प्रथमचतुःशब्दयोः प्रत्येकमभिसंबन्धात् , ततः प्रथमचतुर्ज्ञानसंयमाश्च वेदकं च क्षायोपशमिकसम्यक्त्वमौपशमिकं च अवधिदर्शनं च प्रथमचतुर्ज्ञानसंयमवेदकौपशमिकावधिदर्शनानि तेष्वेकादशस्थानकेषु कत्युपयोगाः ? इत्याह-शानचतुष्टयदर्शनत्रिकमिति तत्पुरुषगर्भो द्वन्द्वः, तत्र ज्ञानचतुष्कं मतिश्रुतावधिमनःपर्यवज्ञानलक्षणम् , दर्शनत्रिकं तु चक्षुरचक्षुरवधिदर्शनरूपम् , इति सप्तोपयोगा भवन्ति / तथा 'केवलदिकयुतं' केवलज्ञानकेवलदर्शनद्वययुक्तं पूर्वोक्तमुपयोगसप्तकमुपयोगनवकं भवति तत् क्क 1 इत्याह-'यथाख्याते' पश्चमसंयमे, एतच्चान्त्यगुणस्थानकचतुष्टये भवति / ततश्चोपयोगसप्तकं छद्मस्थवीतरागोपशान्तक्षीणमोहगुणस्थानकयोः / केवलिद्विकं च केवलिनः स्वगुणस्थानकयोरिति भावना / इति गाथार्थः / / 46 // तथा