________________ 222] षड्शीतिनाम्नि चतुर्थे कर्मग्रन्ये शेषाः नवोपयोगा 'अन्यासु' मनुजगतिव्यतिरिक्तासु सुरनारकतिर्यग्गतिषु भवन्ति. तासु सर्वविरत्यसंभवेन मनःपर्यायज्ञानादीनामसंभवात् / तथा कायद्वारे स्थावरेषु पृथिव्यप्तेजोवायुवनस्पतिलक्षणेषु, इन्द्रियद्वारे एकेन्द्रियद्वीन्द्रियत्रीन्द्रियेषु, अचक्षुर्दर्शनम् , अज्ञानद्विकं च मत्यज्ञानश्रुताज्ञानलक्षणमिति त्रय उपयोगा भवन्ति, न शेषाः / यतः सम्यक्त्वाभावान्न तेषु मतिज्ञानश्रु तज्ञानसंभवः, सर्वविरत्यभावाच मनःपर्यायकेवलज्ञानकेवलदर्शनाभावः / यत्त्ववधिज्ञानमवधिदर्शनं विभङ्गज्ञानं च तद् भवप्रत्ययं गुणप्रत्ययं वा न चानयोरन्यतरोऽपि प्रत्ययः संभवति / चक्षुर्दर्शनोपयोगाभावस्तु चतुरिन्द्रियाभावादेव सिद्धः / इति // 43 / / चक्खुजुयं चरिंदिसु, तं चिय बारम 'पणिदितसकाए। "जोए वेए सुकाएँ "भव'सन्नीसुआहारे // 44 // (हारि०) व्याख्या-'चक्षुर्युत' चक्षुरिन्द्रियोपयोगान्वितं तं चिय' इति तदेव पूर्वोक्तमुपयोगत्रयं च, क ? इत्याह-'चतुरिन्द्रियेषु' अचक्षुर्दर्शनमज्ञानद्विकं चक्षुर्दर्शन मिति चत्वार उपयोगाश्चतुरिन्द्रियेषु भवन्तीत्यर्थः / अथ द्वादशपदेषु लाघवाथं सर्वोपयोगान् संगृह्य प्रदर्शयन्नाह-'पारस' इति द्वादशोपयोगाः, क ? इत्याह-पञ्चेन्द्रिय 1 त्रसकाये 2 इति समाहारद्वन्द्वः, योगे मनो 3 वा 4 काय 5 रूपे. वेदे स्त्री 6 पु ७-नपुसक 8 लक्षणे, 'मुक्काएँ' इति शुक्ललेश्यायां 9, भव्ये 10, संज्ञिषु 11 अत्र द्वन्द्वः, आहारे 12 इति पद द्वादशके भवन्ति / इति गाथार्थः // 44 // ___तथा गाथार्द्धन पदैकादशके दशोपयोगान् संगृह्य तथा केवलद्विके निजद्विकं क्षायिके नवोपयोगाश्चापरार्द्धनाह (मल०) 'चक्षुयुतं' चक्षुर्दर्शनोपयोगसहितं तदेव पूर्वोक्तमुपयोगत्रयं चतुरिन्द्रियेषु भवति / तथा पञ्चेन्द्रियेषु, कायद्वारे त्रसेषु योगेषु च मनोवाकायरूपेषु, वेदेषु च द्रव्यवेदरूपस्त्रीपुनपुसकलक्षणेषु, शुक्ललेश्यायां, भव्येषु, संज्ञिषु, आहारकेषु च द्वादशोपयोगा भवन्ति, एतेषु सर्वेष्वपि सम्यक्त्वदेशविरत्यादीनां संभवात् // 44 // केवलदुगहीणा दस, कसाय पणलेस"चक्खूसु / केवलदुगे नियदुर्ग, खड़गे नय नो अनाणतिगं // 45 // (हारि०) , 'व्याख्या-'केवलनिकहोनाः' केवलज्ञानकेवलदर्शनरहिता दशोपयोगा भवन्ति, केषु 1 इत्याह-कषाय 4 पञ्चलेश्या ह अचक्षु 10 चक्षुष्षु 11 अत्र द्वन्द्व इति