________________ उपयोगाः [221 हारः, चतुर्दर्शन मितिशब्दोऽत्रापि योज्यः, ते च इत्येवंरूपा अनाकाराः सामान्यग्राहिणो द्वादशेति संख्योपयोगा इति सण्टङ्कः / कीदृशास्ते ? इत्याह-'जियलक्खण' 'इति विभक्तिलोपा जीवानां पूर्वोक्तस्वरूपाणां लक्षणानि चिह्नानि जीवलक्षणानि-"उपयोगलक्षणो जीवः' इति वचनात् / इति गाथार्थः / / 42 // अथैतस्तेिष्वेव योजयबाह (मल०) 'उपयागाः' प्राग्निरूपितशब्दार्था द्वादश भवन्ति / किंविशिष्टाः 1 इत्याह'जियलक्ग्वण' इति प्राकृतत्वाद्विभक्तिलोपः, जीवस्यात्मनो लक्षणं, लक्ष्यते ज्ञायते तदन्यव्यवच्छेदेनेति लक्षणं असाधारणं स्वरूपम् , अत एवोक्तमन्यत्र-'उपयोगलक्षणो जोव" इति / ते च द्विधा. साकारा अनाकाराश्च / तत्राकारः प्रतिवस्तुप्रतिनियतो ग्रहणपरिणामरूपो विशेषः "आगारो उ विसेसो" इतिवचनात् , सहाकारेण वर्तन्त इति साकाराः, यथोक्ताकारविकलास्त्वनाकाराः / तत्र साकाराः पञ्चविधं ज्ञानं मतिश्रुतावधिमनःपर्यायकेवललक्षणम् , अज्ञानत्रिकं मत्यज्ञानश्रुताज्ञानविभङ्गरूपम् . 'इनि:' परिसमाप्तौ, एतावन्त एवाष्टौ साकारा उपयोगा न त्वन्ये इति / चत्वारि दर्शनानि चक्षुरचक्षुरवधिकेवलदर्शनलक्षणान्यनाकारा उपयोगाः। अमूनि च ज्ञानान्यज्ञानानि दर्शनानि च मार्गणास्थानभेदाभिधानावसरे सप्रपञ्चं व्याख्यातानीति नेह भूयो व्याख्यायन्ते // 42 // अथैतान् मार्गणास्थानेषु योजयन्नाह मणुयगईए बारस, मणकेवलदुरहिया नवन्नासु / थावरइगिबितिइंदिसु, अचक्खुदंसणमनाणदुगं // 43 // (हारी०) व्याख्या-मनुष्यगतौ द्वादशोपयोगा इति प्रक्रमः / तथा मनःपर्यवज्ञानकेवलद्विकरहिता इति द्वन्द्वगर्भस्तत्पुरुषः, नवोपयोगाः 'अन्यासु' मनुष्यगत्युद्धरितासु सुरनारकतिर्यग्गतिषु / इत्युक्ता गतिषूपयोगाः। इत इन्द्रियादिषु तान् प्रतिपादयन्नाह-यावरइगिवितिइंदिसु' इति “गहइंदिए य काए" इत्यादिगाथया केषांचित्पदानां क्वचित्पदव्यत्ययेन भणनं तल्लाघवार्थमिति / पृथिव्यम्बुतेजोवायुवनस्पत्येकद्वित्रीन्द्रियेष्वित्यष्टसु पदेषु कृतद्वन्द्व - बचतुरदर्शनमज्ञानद्विकमिति त्रय उपयोगाः / इति गाथार्थः // 43 // तथा(मल०) मनुजगतौ उपयोगा द्वादशापि यथोक्ता भवन्ति / तत्र सर्वविरतिसद्भावेन मनःपर्यायकेवलज्ञानादीनामपि संभवात् / तथा मनःपर्यायज्ञानकेवलज्ञानकेवलदर्शनरूपकेवलद्विकरहिताः - १“त्ति" इति जे० / 2 "ल्लिङ्गव्यत्ययत्वाच्च जी इति जे० /