________________ 220 / षडशीतिनाम्नि चतुर्थे कर्मग्रन्थे क्षणं, चरमभाषा अन्तिम्भापा इत्येते षड् योगाः 'असंज्ञिनि' संज्ञिव्यतिरिक्त जीवे भवन्ति / तत्र काणमपान्तरालगती उत्पत्तिप्रथमसमये च औदारिकमिश्रमपर्याप्ताव थायाम् / पर्याप्तावस्थायामौदारिकम् , क्रियद्विकं यादरपर्याप्तवायुकायिकानाम् , चरमभाषा शङ्खादिद्वीन्द्रियादी नामिति / 'अकम्मगाहारगेसु' इति आहारकेषु कार्मणकाययोगविकलाः, शेषाचतुर्दशापि योगा भवन्ति / यत्तु कार्मणं तन्न घटत एव, तस्यापान्तरालगतौ केवलिसमुद्धाततृतीयचतुर्थपञ्चमसमयेषु वा भावात् , तदानींचानाहारकत्वात्। एतच्चाचार्येणोक्तं न सम्यगवगम्यते, यत ऋजुगतौ विग्रहगतौ वा उत्पत्तिप्रथमसमये-"जोएण कम्मएणं, पाहारेई अणंतरं जीवो / तेण परं मोसेणं, जाव सरीरस्स निष्फत्ती॥१॥” इति परममुनिाचनप्रामाण्यादाहारकस्यापि सतः कार्मणकाययोगोऽस्त्येव / अथोच्येत, गृह्यमाणं गृहीतमिति निश्चयनयवशात्प्रथमसमयेऽप्यौदारिकादिपुद्गला गृह्यमाणा गृहीता एव, ततो द्वितीयादिसमयेष्विव तदानीमप्यौदारिकमिश्रकाययोग इति, तदेतदयुक्तम् , यतो यद्यपि तदानीमौदारिकादिपुद्गला गृह्यमाणा अपि गृहीता एव तथाऽपि न तेषां गृह्यमाणानां स्वग्रहणक्रियां प्रति करणरूपता येन तन्निबन्धनो योगः परिकल्प्येत, किन्तु कर्मरूपतेव, निष्पन्नरूपस्य सत उत्तरकालं करणभावदर्शनात , न हि घटः स्वनिष्पादनक्रियां प्रति कर्मरूपता करणरूपतां च प्रपद्यमानो दृश्यते / द्वितीयादिसमयेषु तु तेषामपि प्रथमसमयगृहीतानामन्यपुद्गलोपादानं प्रति करणभावो न विरुध्यते निष्पन्नत्वात् , अतस्तदानीमौदारिकादिमिश्रकाययोग उपपद्यत एव, अत एवोक्तम्-"तेण परं मीसेणं" इति तस्मादस्ति आहारकस्याप्युत्पत्तिप्रथमसमये कार्मणकाययोग इति / 'कम्मणमणाहारे' इति व्यवच्छेदफलं हि वाक्यमतोऽवश्यमबंधारयितव्यम् / तच्चावधारणमिहैवं कार्मणमेवैकमनाहारके न शेषयोगा असंभवादिति / न पुनरेवं कार्मणमनाहारकेष्वेवेति / आहारकेष्वप्युत्पत्तिप्रथमसमये कार्मणयोगसंभवान्नापि कार्मणमनाहारकेषु भवत्येवेत्यवधारणम् , अयोग्यवस्थायामनाहाकस्यापि कार्मणकाययोगाभावात् / वक्ष्यति च-"गयजोगो उ अजोगी" इत्येवमन्यत्रापि यथासंभवमवधारणविधिरनुसरणीयः // 41 // तदेवं मार्गणास्थानेषु योगानभिधाय साम्प्रतमेतेष्वेवोपयोगानभिधित्सुस्तानेव स्वरूपतस्तावदाह नाणं पंचविहं तह, अन्नाणतिगं ति अट्ठ सागारा / चउदंसणमणगारा, बारस जियलक्खणुवओगा // 42 // (हारि०) व्याख्या-'ज्ञान' बोधः 'पञ्चविध' मतिज्ञानादिपञ्चप्रकारम् , तथाशब्दः समुच्चयार्थः, 'अज्ञानत्रिक' मत्यज्ञानादित्रिभेदम् , इत्येवंप्रकारा अष्टेति संख्याः 'साकाराः' सहाकारैर्विशेषग्राहकैर्वर्तन्त इति साकाराः / तथा चतुर्णा दर्शनानां चक्षुर्दर्शनादीनां समा