________________ मार्गणासु योगाः [219 ल्पत्वेन वैक्रियाद्यारम्भासंभवात् / कार्मणमौदारिकमिश्रं चापर्याप्तावस्थायामेवेति संयमद्वयेऽपि तस्याभावः / तथा यथाख्यातसंयमे त एव नव पूर्वोक्ता योगाः कार्मणौदारिकमिश्रसहिताः सन्त एकादश भवन्ति / यथाख्यातसंथमो हि केवलिनोऽपि भवति / तस्य च समुद्धातगतस्य तृतीयचतुर्थपञ्चमसमयेषु कार्मणं "कामणशरीरयोगो, चतुथके पश्चमे तृतीये च / " इतिवचनात् / द्वितीयषष्ठसप्तमसमयेषु त्वौदारिकमिश्रं "मिश्रौदारिकयोक्ता सप्तमषष्टद्वितीयेषु इतिवचनादवाप्यत इति, यथाख्यातसंयमे द्वयोरपि संभवः। सविउच्वा मीसे' इति मिश्र सम्य. मिथ्यादृष्टौ त एव पूर्वोक्ता योगा वैक्रियसहिताः सन्तो दश भवन्ति / तत्र वैक्रियं देवनारका पेक्षम् , यत्तु वैक्रियिमथ तन्नैवावाप्यते, तस्यापर्याप्तावस्थाभावित्वात् / मिश्रभावस्य च-"न सम्मामिच्छो कुणइ कालं" इतिवचनप्रामाण्यतोऽपर्याप्तावस्थायामसंभवात् / स्यादेतक्रियलब्धिमतां मनुष्यतिरश्यां सम्यग्मिथ्यादृशां सतां वैक्रियमिश्रं नावाप्यते ? इति, तेषां वैक्रियारम्भासंभवादन्यतो वा कुतश्चित्कारणादाचार्येणान्यैश्च तन्नाभ्युपगम्यत इति न सम्यगवच्छामस्तथाविधसंप्रदायाभावात् / 'देसे सविउवदुगा' इति देशे देशविरतिरूपे संयमे त एव नब पूर्वोक्ताः सवेक्रियद्विका वैक्रियतन्मिश्रसहिताः सन्त एकादश योगा भवन्ति, देशविरतानामबडादीनाभित्र वक्रिय बन्धिमा वैक्रियविकसंभवात् / / 40 // कम्मुरल विउविदुगाणि चरमभासा य छ उ असन्निम्मि / जोगा अकम्मगाहारगेसु कम्मणमणाहारे // 41 // (हारि०) व्याख्या-द्विकशब्दः पदद्वयेऽपि संबध्यते / कार्मणौदारिकद्विकवैक्रियद्विकानि अत्र तत्पुरुषगर्भो द्वन्द्वः, 'चरमभाषा च' असत्यामृषारूपति, षड्योगा इति संबन्धः / असज्ञिनि' मनोविज्ञानविकले एकेन्द्रियादौ / तत्र कार्मणं विग्रहगतौ, औदारिकमिश्रमपर्याप्तकावस्थायाम् , औदारिकं पर्याप्तावस्थायाम् , सर्वदेव वैक्रियद्विकं बादरपर्याप्तकावस्थायां वायुकायिकापेक्षम् / अन्त्यभाषा च शङ्खादिद्वीन्द्रियादीनाम् / तथा योगाः 'अकार्मणाः' कार्मणशरीररहिताश्चतुर्दशेत्यर्थः, केषु ? इत्याह-आहारकेषु भवन्ति / कार्मणमेक 'अनाहारे' अनाहार कजीवे / अनाहारको हि मिथ्यादृष्टिसासादनाविरतसम्यग्दृष्टिगुणस्थानकत्रये विग्रहगतौ सयोगिगुणस्थानके केवलिसमुद्धाते 'इह यद्यप्ययोग्यप्यनाहारको वर्तते तथाऽपि निरुद्धसमस्तयोगत्वामास्य कार्मणकयोगो भवति / इति गाथार्थः / / 41 // एवं मार्गणास्थानेषु योजिता योगाः, साम्प्रतमुपयोगनामसूा कुर्वस्तावदाह(मल८) कार्मणम् , औदारिकद्विकमौदारिकतन्मिश्रलक्षणं, वैक्रियद्विकं वैक्रियतन्मिश्रल१ "समयत्रये अयोगिगुणस्थानके समस्तेऽपि प्राप्यते तत्रैव कार्मणकयोगो नान्यत्रेति गाथार्थः // 41 // " इति जे०।