________________ 218 ] षडशीतिनाम्नि चतुर्थे कर्मग्रन्थे त्वात् , अत एवोक्तमन्यत्र-"आहारगं पमत्तो उपाएइ न अप्पमत्तो" इति / आहारकस्थितश्चोपशमश्रेणि नारभत एव, तथास्वभावत्वात् / औदारिकमिश्रं चेह सासादनभावाभिमुखस्य कदाचित्कालकरणसंभवादवसेयमिति / 'मणवह' इत्यादि मनोयोगे वाग्योगे मनःपर्यायज्ञाने छेदोपस्थापने सामायिके चक्षुर्दर्शने च कार्मणौदारिकमिश्रवर्जाः शेषास्त्रयोदश योगा भवन्ति कार्मणौदारिकमिश्रयोगौ तु तेषु न संभवत एव, तयोरपर्याप्तावस्थायां भावात् एतेषां तु मनोयोगादीनां तस्यामवस्थायामसंभवात् // 36 // परिहारे सुहुमे नव, उरल 1 वइ 2 मणा 3 ते सकम्मुरलमिस्सा। अहखाए सविउव्वा, मीसे देसे सविउविदुगा // 40 // (हारि०) व्याख्या-परिहारविशुद्धिके तृतीयसंयमे सूक्ष्मसंपराये च चतुर्थसंयमे, अत्र समाहारद्वन्द्वः / औदारिकवाग्मनांसीति द्वन्द्वः / औदारिककाययोगो वाक्चतुष्टयं मनश्चतुष्टयं च इति प्रत्येकं नव योगा भवन्ति / तथा 'ते' पूर्वोक्ता नव 'सकार्मणौदारिकमिश्राः' कार्मनका ययोगौदारिक मश्रयोगयुक्ता एकादश योगा 'यथाख्यान' पञ्चमे संयमे भवन्ति / यथाख्यातसंयमश्चान्त्यगुणस्थानकचतुष्के प्राप्यते, ततः कार्मणौदारिक मिश्रयोगद्वयं केवलिसमुद्धाते प्राग्वद् द्रष्टव्यम् / उपशान्तक्षीणमोहयोस्तु नव नव योगा भवन्ति / अयोगिनि पुनः सयोगाभाव एवेति तात्पर्यम् / तथा 'सविडव्वा मोसे' इति तच्छब्दः पूर्वोक्तोऽत्राप्यनुवर्तते, ततस्ते पूर्वोक्ताः परिहार वेशु सूक्ष्मसंपरायसत्का नव योगा सर्वक्रियाः सवैक्रियशरीरा दशेत्यर्थः, क्व ? इत्याह-'मिश्रे' मिश्रगुणस्थानके / इदं च वैक्रियं देवनारकापेक्षम् / तथा 'देसे सविउवि. दुगा' इति देशे देशविरते गुणस्थानके, अत्रापि तच्छन्दोऽनुवर्तनीयः / ततस्ते पूर्वोक्ता नव सवैक्रियद्विका वैक्रियशरीरतन्मिश्रान्विता इत्येकादश योगा भवन्ति / वैक्रियद्विकं च यथासंभवं लब्धौ सत्यां देशविरताः कुर्वन्ति / इति गाथार्थः // 40 // तथा (मल०) परिहारविशुद्धिके सूक्ष्मसंपराये च संयमे नव योगा भवन्ति / के ते ? इत्याह'उरलवइमणा' औदारिकं चतुर्धा वाक्चतुर्धा मनश्च / यस्याहारक द्विकं वैक्रियद्विकं कार्मणमौदारिकमिश्रं च तन्न संभवत्येव / तथाहि, आहारकद्विकं चतुर्दशपूर्ववेदिनः / परिहारविशुद्धिकसंयमोपेतश्चोत्कर्षतोऽप्यधीतकिंचिन्न्यूनदशपूर्व एव, उत्कर्षतोऽपि तावदधीतश्रुतस्यैव तत्संयमप्रतिपत्त्यभ्यनुज्ञानात् , तत्कथं तस्याहारकद्विक संभवः 1 नापि तस्य वैक्रियद्विकसंभवः, तस्यामवस्थायां तत्करणाननुज्ञानाञ्जिनकल्पिकस्येव, तस्याप्यत्यन्तविशुद्धाप्रमादमूलघोरानुष्ठानपरायणत्वात् , वैक्रियारम्भे च लब्ध्युपजीवनेनौत्सुक्यभावतः प्रमादसंभवात् / अत एंव सूक्ष्मसंपराय संयमेऽपि चतुर्णामपि योगानामभावः, तत्संयमोपेतस्याप्यत्यन्तविशुद्धतया निस्तरङ्गमहोदधिक