________________ मार्गणास्थानेषु योगाः [ 217 .थीवेअ 1 नाणो 4 वमम 5 अजय 6 सासण 7 अभव्य 8 मिच्छेसु 9 / तेरस मण 1 व 2 मणनाण 3 छेय 1 सामइय 5 चक्खुसु 6 य // 39 // (हारि०) व्याख्या-स्त्रीवेदे 1 मत्यज्ञाने 2 श्रुताज्ञाने 3 विभङ्गज्ञाने 4 औपशमिकसम्यक्त्वे 5 'अजय' इति अविरतसम्यग्दृष्टिगुणस्थानके 6 सासादने 7 अभव्ये 8 मिथ्यादृष्टिगुणस्थानके 9 अत्र द्वन्द्वः, आहारकद्विकवर्जास्त्रयोदश योगा भवन्त्येतेषु नवसु स्थानेषु चतुर्दशपूर्वधरत्वाभावेनाहारकद्विकाभानो भावनीयः / तद्यथा-मनोयोगे 1 वाग्योगे 2 मनःपर्यायज्ञाने 3 छेदोपस्थापनीयसंयमे 4 सामाथिकसंयमे 5 'चक्खुसु' इति चक्षुर्दर्शने च 6 द्वन्द्वः, चशब्दः समुच्चये, न केवलं प्राक्तनपदनवके त्रयोदश योगाः, किन्तु मनोयोगादिपदषट्के चात्रापर्याप्तकाभावादौदारिकमिश्रकार्मणकाययोगवर्जत्रयोदशयोगा भवन्तीति / अत्रायं गर्भार्थः-इह वर्जनीययोगद्वयं द्वयोरपि पदकदम्बयोभिन्न भिन्न भिन्नविभक्तिनिर्देशादेवैतदर्थमेव तन्मध्ये त्रयोदशशब्दस्यप्रक्षेपो विहितः / वर्जनीययोगद्वयं च सुज्ञानात्वात्सूत्रे सूत्रकृता नोक्तम् / इति गाथार्थः // 36 // तथा(मल०) वेदद्वारे स्त्रीवेदे, ज्ञानद्वारे अज्ञाने मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानलक्षणे, सम्यक्त्वद्वारे औपशमिकसम्यक्त्वे, अयते विरतिहीने, सासादने, अभव्ये, मिथ्यात्वे च आहारकद्विकहीनाः शेषास्त्रयोदश योगा भवन्ति / यवाहारकद्विकं तदेतेषु न संभवत्येव, यतस्तच्चतुर्दशपूर्वविदो भवति-"आहारदुगं जायइ चउद्दसविण" इति वचनात् / तानि चतुर्दशापि पूर्वाण्यज्ञानाऽयतसासादनाऽभव्यमिथ्यादृष्टिषु दूरतोऽपास्तानि / स्त्रीवेदश्चेह द्रव्यरूपो द्रष्टव्यः, न तु तथारूपाध्यवसायलक्षणो भावरूपः , तयाविवक्षणात् / एवमुपयोगमार्गणायामपि द्रष्टव्यम् / प्राक्तु गुणस्थानकमार्गणायां सर्वोपि वेदो भावरूपो गृहीतः, तथा विवक्षणादेव / अन्यथा तेषु यथोक्तगुणस्थानकनवकसंख्यानायोगात्सयोगिकेवल्यादावपि द्रव्यवेदस्य भावात् / द्रव्यवेदश्च बाह्यमाकारमात्रम् , तत्कुतः स्त्रीवेदे चतुर्दशपूर्वाधिगमसंभवः / यत आहारकद्विकं तत्रोपपद्यते, स्त्रीणामागमे दृष्टिवादाध्ययनप्रतिषेधात् , तदुक्तम्"तुच्छा गारवबहुला, चलिंदिया दुयला य धीईए / इय अइसेसजायणा, भूयावादी उ नीत्थीणं // 1 // " इति / 'भूयावादो' इति भूतवादो-दृष्टिवादः। तथा औपशमिकसम्यक्त्वं प्रथमसम्यक्त्वोत्पादकाले उपशमशेण्यारोहे वा, न च सम्यक्त्त्वोपादकाले चतुर्दशपूर्वाधिगमसंभवः, तदभावाच कथमाहारकद्विकभावः ? श्रेण्यारूढस्त्वाहारकं नारभत एव, तस्याप्रमत्तत्वात् / आहारकारम्भकस्य तु लब्ध्युपजीवनेनौत्सुक्यभावतः प्रमादबहुल___. १“जोगाऽऽहारदुगृणा तेरस थीमाइनवसु दारेसु / ओरालमिस्सकम्मणरहिया मणमाइछण्हंवि // // " इति गाथा-ऽधिकतयादृश्यतेहस्तलिखितप्रतौ /