________________ 216] षडशीतिनाम्नि चतुर्थे कर्मग्रन्थे कम्मुरलदुगं थावर काए वाए विउविजुयल जुयं / पढमंतिममणवइदुगकम्मुरलदु केवलदुगंमि // 38 // (हारि०) व्याख्या-कार्मणौदारिकद्विकम्, अत्र समाहारद्वन्द्वः / तत्र कार्मणं विग्रहगतो, औदारिकद्विकं त्वौदारिकशरीरतन्मिश्रलक्षणमिति त्रयो योगाः / क ? इत्याह-'स्थावरकाये' पृथिव्यम्बुतेजोवनस्पतिरूपे / तथा 'वायौ' वायुकायिके प्राक्तनत्रयं स्थावरकायसत्कं वैक्रिययुगलयुतमिति पञ्च योगा वायुकाये / वैक्रियद्विकभावना तु प्राग्वदिति / तथा विभक्तिलोपात्प्रथमान्त्यमनोवाग्द्विककार्मणौदारिकद्विकमिति कर्मधारयगर्भो द्वन्द्व इत योगसप्तकं 'केवलद्विके' केवलज्ञानकेवलदर्शनरूपे भवति / तत्र सत्यासत्यमृषारूपं मनोद्वयम् 2 एवं वाग्द्वयमपि 2 / औदारिकं च सर्वदेव, कार्मणौदारिकमिश्रद्वयं तु केवलिसमुद्घाते, उबर च- 'औदारिकप्रयोक्ता, प्रथमाष्टमसमययोरसाविष्टः / मिश्रौदारिकयोक्ता, सप्तमषष्ठद्वितीयेषु / // 1 // कार्मणशरीरयोगो. चतुर्थके पञ्चमे तृतीये च / समयत्रयेऽपि तस्मिन् , भवत्यनाहारको नियमात् / / 2 / / " इति गाथार्थः / / 3 / / साम्प्रतं प्रथमार्केन पदनवके आहारकद्विकवर्जत्रयोदशयोगान , द्वितीयान पदषट्के औदारिक मश्रकार्मणवर्जत्रयोदशयोगानेव च संगृह्याह___(मल०) कार्मणमौदारिकतन्मिश्रलक्षणम् , इत्येते त्रयो योगा स्थावरकाये' पृथिव्यप्तेजोवनस्पतिलक्षणे भवन्ति, भावना प्राग्वत् , न शेषा, असंभवात् / तथा वातकाये तदेव पूर्वोक्तं त्रिकं 'वैक्रिययुगलयुतं' वैक्रियतन्मिश्रसहितं द्रष्टव्यम् , तस्य बादरपर्याप्तस्य सतः कस्यचिद् वैक्रियलब्धिसंभवात् / ननु च कथमुच्यते कस्यांचवे क्रियलब्धिसंभवः ? यावता सर्वोऽपि बादरपर्याप्तो वायुकायिकः स वैक्रिय एव. अवैक्रियस्य चेष्टाया एवाप्रवृत्तेः. तदुक्तम्सम्वे वेउव्विया वाया वायंति अवेउब्धियाणं चेट्टा चेव न पवत्तह" इति, तदयुक्तम् , अवैक्रियाणामपि तेषां स्वभावत एव तथाचेष्टोपपत्तेः, उक्तं च-"जेण सव्वेसु चेव लोगागासाइस चला वायवो वायंति तम्हा अवेउवियावि वाया वायंति ति घेत्तध्वं सभावओ तेसिं वाइयव्व" इति वानाद्वायुरितिकृत्वा / तथाऽन्यत्रा'युक्तम्-"त थ ताव तिण्हं रासोणं वेउव्वियलड़ी चेव नत्थि / वायरपजत्ताणपि असंविजहभागमेताणं लडो अस्थि ति तिण्हं रासोणं" इति / त्रयाणां राशीनां पर्याप्तापर्याप्तसूक्ष्मापर्याप्तबादरवायुकायिकानाम् / तथा केवलदिके' केवलज्ञानदर्शनरूपे सप्त योगा भवन्ति / के ते ? इत्याह-“पढमंतिममणवइदुगकम्मुरलदु" इति प्रथमान्तिमरूपं मनोद्विकं सत्यमनः असत्यामृषामनश्च, वाग्द्विकं प्रथमान्तिमरूपं सत्या असत्यामृषा च भाषा, शेषस्य मनोद्विकस्य वाग्द्वि कस्य चासंभवाच्छद्मस्थविरहितत्वात् / औदारिककाययोगः सयोग्यवस्थायां तस्यामेव चावस्थायां समुद्घातगतस्य कार्मणौदारिकमिश्रलक्षणयोगद्वयसंभव इति // 38 //