SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ मार्गणास्थानेषु योगाः [215 नरगइ' पणिदि तस तणु नर अपुम कसाय मइ"सु" ओहिदुगे" / अच्चक्ख" छलेमा' भव्य सम्मदुग सन्निस" य मब्बे // 36 // (हारि०) व्याख्या-'नरगई' इति मनुष्यगतौ 1 पञ्चेन्द्रियेषु 2 असेषु 3 'तणु' इति काययोगे 4 'नर' इति पुरुषवेदे 5 'अपुम' इति नपुसकवेदे 6 'कसाय' इति क्रोध 7 मान 8 माया ह लोभेषु 10 मतिज्ञाने 11 श्रुतज्ञाने 12 'ओहिदुगे' इति अवधिज्ञाने 13 अवधिदर्शने 14 च / एतेषु समाहारद्वन्द्वः 'अचक्खु' इति अचक्षुर्दर्शने 15 'छलेसा' इति कृष्ण 16 नील 17 कापोत 18 तेजसी 16 पद्म 20 शुक्ललेश्यासु 21 भव्येषु 22 सम्मदुग' इति क्षायोपशमिके 23 क्षायिके 24 संज्ञिषु 25, अत्रापातरेतरद्वन्द्वः, चशब्दः समुच्चये, 'सव्वे' योगा इति प्रक्रमः, पञ्चदशापि पश्चविंशतिपदेषु भवन्ति / इति गाथार्थः // 36 / / तथा- . (मल०) नरगतौ मनुष्यगतो. इन्द्रियद्वारे पञ्चेन्द्रियेषु कायद्वारे त्रसकायेषु,योगद्वारे काययोगे, वेदद्वारे पुवेदनपुसकवेदयोः, कपायद्वारे चतुर्वपि कषायेषु 'मइसुओहिदुगे' इति ज्ञानद्वारे मतिज्ञाने श्रुतज्ञाने अवधिज्ञाने, दर्शनद्वारे अवधिदर्शने 'अचक्खु' इति अचक्षुर्दशेने, लेश्याद्वारेषट्स्वपि लेश्यासु, भव्यद्वारे भव्येषु 'सम्मदुग' इति सम्यक्त्वद्वारे क्षायोपशमिके क्षायिके च, संज्ञिद्वारे संज्ञिषु' पञ्चदशापि योगा भवन्ति / सुज्ञानत्वाच नेह भावना क्रियते / / 36 / / एगिदिएसु पंच उ कम्मइगविउविउरलजुअलाणि / कम्मुरलदुर्ग अन्तिमभासा विगलेसु चउरोत्ति // 37 // (हारि०) व्याख्या-एकेन्द्रियेषु पञ्चैव योगा इति प्रकमः / तुशब्द एवकारार्थः, स च योजित एव / के एते ? युगलशब्दस्य प्रत्येकमभिसंबन्धात्कार्मणवैक्रिययुगलौदारिकयुगलानि, अत्र तत्पुरुषगर्भो द्वन्द्वः / तत्र कार्मणं विग्रहगतो, वैक्रियद्विकं बादरपर्याप्तकवायुकायिकापेक्षम् , तथा कार्मणौदारिकद्विकमिति द्वन्द्वः, अन्त्यभाषा चेति 'विकलेषु' विकलेन्द्रियेषु द्वित्रिचतुरिन्द्रियरूपेसु प्रत्येकं चत्वारो योगा इति प्रक्रमः / इतिशब्दो वाक्यसमाप्तौ / तत्र कार्मणं विग्रहगतो, अन्त्यभाषाऽसत्यामृपालक्षणा इति गाथार्थः। / 37 // तथा (मल०) एकेन्द्रियेषु पञ्च योगा भवन्ति / के ते इत्याह-'कम्मइगविउव्विउरलजुयलाणि' इति कार्मणमौदारिकयुगलं वैक्रिययुगलं च / तत्र कार्मणमपान्तरालगती उत्पत्तिप्रथमसमये च औदारिकमिश्रमपर्याप्तावस्थायां, पर्याप्तावस्थायां त्वौदारिकम् / वैक्रिययुगलं बादरपर्याप्तवायुकायिकस्य तस्य तल्लब्धिसंभवात् / तथा विकलेषु' विकलेन्द्रियेषु द्वित्रिचतुरिन्द्रियलक्षणेषु कार्मणौदारिकद्विकान्तिमभाषारूपाश्चत्वारो योगा भवन्ति / तत्र कार्मणौदारिकद्विकभावना प्राग्वत् / अन्तिमभाषा चासत्यामृषारूपा, शेषा तु भाषा तेषां न संभवत्येव, “विगलेषु असच्चमोसेव" इतिवचनात् // 37 //
SR No.004404
Book TitleKarmgranth tatha Sukshmarth Vicharsar Prakaran
Original Sutra AuthorN/A
AuthorVeershekharvijay
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1974
Total Pages716
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy