________________ 214 ] षडशीतिनाम्नि चतुर्थे कर्मग्रन्थे कम्मएणं, आहारेई अणंतरं जीवो। तेण परं मोसेणं, जाव सरीरस्स निप्पत्ती // 1 // " केवलिसमुद्घातावस्थायां तु द्वितीयषष्ठसप्तमसमयेषु कार्मणेन मिश्रमौदारिकं प्रतीतमेव / तथा वैक्रियमिश्रं कार्मणेन औदारिकेण वा / तत्कार्मणेन मिश्रं देवनारकाणामपर्याप्तावस्थायां प्रथमसमयादनन्तरं द्रष्टव्यम् / बादरपर्याप्तकवायोः पञ्चेन्द्रियतिर्यङ्मनुष्याणां च वैक्रियलब्धिमतां वैक्रियारम्भकाले वैक्रियपरित्यागकाले वा औदारिकेणेति / तथा सिद्धप्रयोजनस्य चतुर्दशपूर्वविंद आहारकं परित्यजत औदारिकमुपपादनस्य आहारकं वा प्रारभमाणस्याहारकमिश्रमोदारिकेण द्रष्टव्यम् / 'कम्मइग' इति कमैंव कार्मणम् / प्रज्ञादित्वादण / संसार्यात्मनां गत्यन्तरसंक्रमणे साधकतमं करणम्' / 'इय जोगा' इतिः परिसमाप्तिवचनः / ततोऽयमर्थ:-एते एव योगा नान्ये इति / ननु तैजसमपि शरीरं विद्यते तदुक्ताहारपरिणमनहेतुः, यद्वशाद्वा विशिष्ट - तपोविशेषसमुत्थलब्धिविशेषस्य पुंसस्तेजोलेश्याविनिर्गमः तत्कथम् ?, उच्यते, एत एव योगा इति नैष दोषः, सदा कार्मणेन सहाव्यभिचारितया तस्य तद्ग्रहेणैव गृहीतत्वादिति // 34 // उक्ताः स्वरूपतो योगाः, साम्प्रतमेतानेव मार्गणास्थानेषु चिन्तयन्नाह एकारस सुरनारयगईसु आहारउरलदुगरहिया / जोगा तिरियगईए तेरम आहारगदुगुणा // 35 // __(हारि०) व्याख्या-एकादशेति संख्या योगा इति योगः / किं स्वरूपास्ते ! इत्याह'आहारकदिकौदारिकद्विकरहिताः' द्विकशब्दः प्रत्येकमभिसंबध्यते कयोः, सुरनारकगत्योः ' सुराणां नारकाणां चैकादश योगा इत्यर्थः / आहारकद्विकं यतेरेव / औद रिकद्विकं तु नरतिरश्चामेवेतिकृत्वेति तद्वर्जनम् / तथा तिर्यग्गतो त्रयोदश योगा इति प्राक्तनेन संबन्धः / कीदृशास्ते ? इत्याह-आहारकद्विकोनाः, भावना तु पूर्ववत् इति गाथ.र्थः // 3 // सम्प्रत्येकगाथया पश्चविंशतिपदेषु पञ्चदशापि योगान् संगृह्य लाघवार्थमाह___ (मल०) सुरगतौ नरकमतौ च प्रत्येकमाहारकद्विकौदारिकद्विकरहिताः शेषा एकादश मनोयोगचतुष्ट 4 वाग्योगचतुष्टय 8 वैक्रिय ह वैक्रियमिश्र 10 कार्मण 11 लक्षणा योगा भवन्ति / तत्र कार्मणमपान्तरालगती उत्पत्तिप्रथमसमये च, वैक्रियमिश्रमपर्याप्तावस्थायाम् , पर्याप्तवस्थायां तु वैक्रियम्, मनोयोगचतुष्टयं वाग्योगचतुष्टयं च पर्याप्तावस्थायां सुप्रतीतमेव / यदा-ऽऽहारकद्विकमाहारकतन्मिश्रलक्षणं तन्न संभवत्यैव, तत्र सर्वविरत्यभावात् / सर्वविरतस्य हि चतुर्दशपूर्ववेदिन आहारकद्विकं संभवति-"आहारं चउदसपुग्विणो उ" इत्यादिवचनप्रामाण्यात् / औदारिकद्विकमप्योदारिकतन्मिश्रलक्षणं नरतिरथामेवोपपद्यते, न देवनारकाणामिति / तथा तिर्यग्गतौ आहारकद्विकेन आहारकतन्मिश्रलक्षगेन ऊना-हीनाः शेषास्त्रयोदश भवन्ति / तौकादश पूर्वोक्ता एव तिरश्वामपि केषांचिद्वै क्रियलब्धियोगतो वैक्रियविकसंभवात्केवलमौदारिकद्विकमधिकमिह प्रक्षिप्यते // 35 / /