________________ योगाः [ 213 साम्प्रतमेते गत्यादिमार्गणास्थानेषु योज्यन्ते (मल०) इह योगशब्देन कारणे कार्योपचारात्तत्सहकारिभूतं मनः प्रभृत्येव विवक्षितमिति तेः मह योगस्य सामानाधिकरण्यम्। तत्र मनश्चतुर्धा, तद्यथा-सत्यं, मृषाः 'मिश्रम्' इति मत्यामृषा असत्यामृषेति। तत्र सत्यमिति सन्तो मुनयः पदार्था वा, तेषु यथासंख्यं मुक्ति प्रापकत्वेन यथावस्थितवस्तुस्वरूपचिन्तनेन च साधु सत्यम् , यथाऽस्ति जीवः सदसद्पो देहमावव्यापी, इत्यादिरूपतया यथावस्थितवस्तुचिन्तनपरम् / सत्यविपरीतमसत्यम् , यथा नास्ति जीव एकान्तासद्रपो वा, इत्यादिकुविकल्पनपरम् / सत्यं च मृषा चेति मिश्रम् , यथा धवखदिरपलाशादिमिश्रेषु बहुवशोकवृक्षेष्वशोकवनमेवेदमिति विकल्पनपरम् / अत्र हि कतिपयाशोकवृक्षाणां सद्भावात्सत्यता, अन्येषामपि धवादीनां सद्भावादसत्यता, व्यवहारनयमतापेक्षया चैवमुच्यते / परमार्थतः पुनरिदमसत्यमेव, यथाविकल्पितार्थायोगात् / तथा यन्न सत्यं नापि मृषा तदसत्यामृषा / इह विप्रतिपत्तौ सत्यां यद्वस्तुप्रतिष्ठाशया सर्वज्ञमतानुसारेण विकल्प्यते, यथाऽस्ति जीवः सदसद्रप इत्यादि, तत्किल सत्यं परिभाषितम् / यत्पुनर्विप्रतिपत्तौ सत्यां वस्तुप्रतिष्ठाशया सर्वज्ञमतोत्तीर्ण विकल्प्यते, यथा नास्ति जीव एकान्तनित्यो वेति तदसत्यम् , विराघकत्वात् / यत्पुनर्वस्तुप्रतिष्ठाशामन्तरेण स्वरूपमात्रपर्यालोचनपरम् ; यथा हे देवदत्त ! घटमानय, गां देहि मह्यम् ; इत्यादिचिन्तनपरं तदसत्यामृषा / इदं हि स्वरूपमात्रपर्यालोचनपरत्वान्न यथोक्तलक्षणं सत्यं नापि मृषेति, इदमपि व्यवहारनयमतेन द्रष्टव्यम् , निश्चयनयमतेन तु विप्रतारणादिबुद्धिपूर्वकमसत्येऽन्तर्भवति अन्यथा तु सत्ये इति / 'तह वई' इति यथा मनः सत्यादिभेदाच्चतुधो तथा वागपि सत्यादिभेदाच्चतुर्धा / 'उर लविउच्चाहारा' इति औदारिकवैक्रियाहारकाणि / तत्रोदारं प्रधानम् / प्राधान्यं च तीर्थकरगणधरशरीरापेक्षया द्रष्टव्यम् / ततोऽन्यस्यानुत्तरसुरशरीरस्याप्यनन्तगुणहीनरूपत्वादुदारमेवौदारिकम् / विनयादित्वादिकण् / अथवोदारं-सातिरेकयोजनसहस्रमानत्वाच्छेषशरीरापेक्षया बृहत्प्रमाणम् / वृहत्ता चास्य वैक्रियमधिकृत्य भवधारणीयसहजशरीरापेक्षया द्रष्टव्या / अन्यथोत्तरवैक्रियं योजनलक्षमानमपि लभ्यत इति / उदारमेवौदारिकम् / प्राग्वदिकण्प्रत्ययः / तथा विविधा विशिष्टा वा क्रिया विक्रिया तस्यां भवं वैक्रियम् / तथा चतुर्दशपूर्वविदा तीर्थकरस्फातिदर्शनादिकतथाविधप्रयोजनोत्पत्तौ सत्या विशिटलब्धिवशादाहियते निवर्त्यत इत्याहारकम् / कृद्धहुलमितिवचनात् कर्मणि बुञ् / यथा पादहारक इत्यत्र / 'मिस्सा' इति मिश्रशब्दः प्रत्येकमभिसंबध्यते / औदारिकमिश्रं वैक्रियमिश्रं आहारकमिश्रं च / तत्रौदारिकमिश्रं कार्मणेन, तच्चापर्याप्तावस्थायां केवलिसमुद्धातावस्थायां वा उत्पत्तिदेशे हि पूर्व भवादनन्तरमागतो जीवः प्रथमसमये कार्मणेनेव केवलेनाहारयति, ततः परमौदारिकस्याप्यारब्धत्वादौदारिकेण कार्मणमिश्रेण यावच्छरीरस्य निष्पत्तिः / उक्तं च 'जोएण