________________ 12] पडशीतिनाम्नि चतुर्थे कर्मप्रन्थे विद्यते मृषा यत्र तद्भवत्यमृषम् , असत्यं च तदमृपं चेति कृताकृतादिवत्कर्मधारयः, आमन्त्रणप्रज्ञापनादिरूपम् , यथा हे देवदत्त ! घटमानय, धर्म कुरु, भिक्षां देहि इत्यादि / एवंविधं किम् ! इत्याह-'मणं' इति मनश्चित्तं, तथाशब्दो वाक्योपक्षेपार्थः / लिङ्गव्यत्ययेन वाकचैत्रविधैव चतुर्भे देत्यर्थः / तथा 'उरलविवाहारा' इति सूचकत्वात्सूत्रस्यौदारिकवैक्रियाहारककाययोगाः / तथा 'मीसा' इति एत एवौदारिकादयो मिश्रास्त्रयः / 'कम्मइग' इति प्राकृतत्वात्कार्मणकाययोग इति सप्तविधकाययोगः / तत्रोदारं-प्रधानं, उदारमेवीदारिकम् / प्राधान्यं चेह तीर्थकरगणधरशरीरापेक्षया वेदितव्यम् / ततोऽन्यस्यानुत्तरसुरशरीरस्याप्यनन्तगुणहीनरूपत्वात् / अथवा उदारं सातिरेकयोजनसहस्त्रमानत्वाच्छेषशरीरेभ्यो बृहत्प्रमाणम् , उदारमेवौदारिकम् / बृहत्त्वं चास्य भवधारणीयसहजशरीरापेक्षया मन्तव्यम् / अन्यथा हि उत्तरवैक्रियं लक्षयोजनमानमपि लभ्यत इति / औदारिकमेव चीयमानत्वात्कायः, तेन सहकारिकारणभूतेन तद्विषयो वा योग औदारिककाययोगः 1 / तथा विविधा विशिष्टा वा क्रिया विक्रया तस्यां भवं वैक्रियम् , विशिष्टं कुर्वन्ति तदिति च निपातनाद्वैक्रियम् , तदेव कायस्तेन योगो वैक्रियकाययोगः 2 / तथा चतुर्दशपूर्वविदा तथाविधकार्योत्पत्तौ विशिष्टलब्धिवशादाहियते=निर्वयंत इत्याहारकम् , अथवा आहियन्ते गृह्यन्ते तीर्थकरादिसमीपे सूक्ष्मा जीवादयः पदार्था अनेनेत्याहारकम् , तदेव कायः, तेन योग आहारककाययोगः 3 / तथा औदारिकं मिश्रं यत्र, कार्मणेनेति गम्यते, स भवत्यौदारिकमिश्रः / उत्पत्तिदेशे हि अनन्तरागतो जीवः प्रथमसमये कार्मणेनैवाहारयति ततः परमौदारिकस्यारब्धत्वादोदारिकेण कार्मणमिश्रेणाहारयति, उक्तं च नियुक्तिकृता-"जोएण कम्म एणं, आहारेई अणंतरं जीवी / तेण परं मीसेणं, जाव सरीरस्स निप्फत्ती // 1 // " औदारिकमिश्रश्चासौ कायश्च तेन योग औदारिकमिश्रकाययोगः 4 / तथा वैक्रियं मिश्रं यत्र कार्मणेनेति गम्यते स वैक्रियमिश्रः / अयं तु देवनारकाणामपर्याप्तावस्थायां मन्तव्यः / शेषस्तु वाय्वादीनामौदारिक (वै क्रिय) मिश्री न ग्राह्योऽप्रधानत्वादिति 5 / तथाऽऽहारकं मिश्रं यत्रौदारिकेणेति गम्यते स आहारकमिश्रा, स एव कायस्तेन योग आहारकमिश्रकाययोगः / यदा सिद्धप्रयोजनश्चतुर्दशपूर्व विदाऽऽहारकं परित्यज्यौदारिकोपादानाय प्रवर्तते तदौदारिवण मिश्रमाहारकं प्राप्यते / बहुव्यापारत्वेन प्रधान स्वादाहारकेण व्यपदेश इति भावः / अन्ये त्वस्यापि प्रारम्भकाल एवाहारकमिश्र प्रतिपद्यन्ते, प्रारभ्यमाणत्वेनाहारकस्य प्राधान्यविवक्षया तेनैव व्यपदेशमिच्छन्तीति हृदयम् 6 / तथा कर्मैव कार्मणः, अथ कर्मणो विकारः कार्मणः, उक्तं च-'कम्मविवागो कम्मणमट्टविहविचित्तकम्मनिप्फन्नं / सव्वेसि सरीराणं कारणभूयं मुणेयव्वं // 1 // कार्मणश्चासौ कायश्च तेन योगः कार्मणकाययोगः 7) 'इय जोगा' इति 'इति' अमुना प्रकारेण योगाः पञ्चदशापि प्ररूपिता इति शेषः / इति गाथार्थः // 34 //