________________ मार्गणास्थानेषु गुणस्थानकानि तथौघतो योगाः [261 (हारि०) व्याख्या-आहारकेषु प्रथमानि त्रयोदश गुणस्थानानि भवन्ति / तथाऽनाहारके पञ्चेमानि वक्ष्यमाणानि / तान्येवाह-पढमंतिमद्गअविश्य' इति द्विकशब्दस्य प्रत्येकमभिसंबन्धात्प्रथमद्विकान्त्यद्विकाविरतानीति तत्पुरुषगर्भो द्वन्द्वः / तत्र मिथ्यादृष्टिसासादनाविरतसम्यग्दृष्टिगुणस्थानकानि त्रीणि विग्रहगतौ सयोगिकेवलिगुणस्थानकम् / समुद्घाते चतुर्थपञ्चमतृतीयसमयेषु सिद्धान्तप्रसिद्धेषु अयोगिकेवलिगुणस्थानं त्वीषद्हम्वाक्षरपञ्चकोगिरणमानं कालं समस्तगुणस्थानकमित्यर्थः। उक्तं च-“विग्गहगइमावन्ना, केवलिणो समुहया अजोगी य / सिद्धा य अणाहारा, सेसा आहारगा जीवा / / 1 / / " इत्यनाहारके पवेति गत्यादिनाहारकपर्यवसानेषु चतुर्दशपदेषु द्विषष्ट्य त्तरभेदप्रभिन्नेषु 'इति' अमुना प्रकारेण गुणस्थानकान्यभिहितानीति शेषः / इति गाथार्थः // 33 // साम्प्रतं मार्गणास्थानेष्वेव योगान्मार्गयितुकामः पूर्वं तानेव प्ररूपयन्नाह___(मल०) आहारकेषु प्रथमानि मिथ्यादृष्टयादीनि त्रयोदश गुणस्थानकानि भवन्ति, सर्वेष्वप्येतेषु ओजोलोमप्रक्षेपाहाराणामन्यतमस्याहारस्य यथायोगं संभवात् / तथाऽनाहारकेषु पञ्च इमानि वक्ष्यमाणांनि गुणस्थानकानि भवन्ति / कानि ? इत्यत आह-पढमंतिमदुगअविरय' इति प्रथमद्विकं मिथ्यादृष्टिसासादनलक्षणम् , अन्तिमद्विकं सयोग्ययोगिकेवलिलक्षणम् , अविरतसम्यग्दृष्टिश्चेति / तत्र सयोगिनोऽनाहारकत्वं समुद्घातगतस्य तृतीयचतुर्थपश्चमसमयेषु तदुक्तम्-'चतुर्थपञ्चमतृतीयेष्वनाहारकः" इति / अयोग्यवस्थायां तु योगरहितत्वेनौदारिकादिशरीरपोषकपुद्गलग्रहणाभावादनाहारकत्वम् औदारिकवैक्रियाहारकशरीरपोषकपुद्गलो. पादानमाहार इति हि समयोपनिपटेदिनः / मिथ्यादृष्टिसासादनाविरतसम्यग्दृष्टिषु विग्रहगताचनाहारकत्वमिति / उपसंहारमाह-'गल्याइसु इय गुणट्ठाणा" // 33 // तदेवमुक्तानि मार्गणास्थानेषु गुणस्थानकानि, साम्प्रतमेतेषु योगानभिघित्सुस्तानेव पूर्व स्वरूपतो निर्दिशति सच्च मोसं मीसं असच्चमोसं मणं तह वई य। .. उरलविउव्वाहारा मीसा कम्मइगमिय जोगा // 34 // ... (हारि०) व्याख्या-सन्तो मुनयः पदार्था वा, तेषु यथासंख्येन मुक्तिप्रापकत्वेन यथाचस्थितस्वरूपचिन्तनेन वा हितं सत्यम् / अस्ति जीवः सदसद्रूपो वा देहमात्रव्यापकः, इत्यादि यथावस्थितवस्तुविकल्पनपरम् / तथा तद्धिपरीतं मृषा / नास्ति जीव एकान्तसद्रूपों वेत्यादि / यथावस्थिता-ऽयथावस्थितवस्तुचिन्तनपरं मिश्रम् / इह धवखदिरपलाशादिमिश्रेषु बहुष्पशोकवृक्षषु अशोकवनमिदमिति यदा विकल्पयति तदा प्रस्तुतमिश्रविषयता / इदं हि विकल्पनमत्राशोकवृक्षाणां सद्भावात्सत्यम् , अन्येषामपि धवादीनां तत्र सद्भावादसत्यमिति मिश्रम् / न