________________ 210] षडशीतिनाम्नि चतुर्थे कर्मग्रन्थे वेयगखइगवसमे चउरो एक्कारस? तुरियाई / सेसतिगे सहाणं सनिसु चउदस असत्रिसु दो // 32 // __ (हारि०) व्याख्या--वेदक-झायोपशमिकं तच क्षायिकं चौपशमिकं चेति समाहारद्वन्द्वः / तत्र यथासंख्येन चत्वार्यकादशाष्टौ गुणस्थानानि भवन्ति / किमाद्यानि ? इत्याह--विभक्तिलोपात् 'तुर्यादोनि' चतुर्थादीनि / तत्र वेदके विरतसम्यग्दृष्टिंदेशविरतप्रमत्ताप्रमत्तयतिनामानि चत्वारि गुणस्थानानि / क्षायिके त्वविरतसम्यग्दृष्टयादीन्ययोगिकेवलिगुणस्थानकान्तान्येकादश / औपशमिकेऽविरतसम्यग्दृष्टयाद्युपशान्तमोहान्तान्यष्टौ गुणस्थानकानि भवन्ति / तथा 'शेषत्रिके' मिश्रसासादनमिथ्यादृष्टिरूपे 'स्वस्थानं' स्वकीयपदं भवति / अयमर्थः- सम्यग्मिथ्यात्वे सम्यग्मिथ्यादृष्टिगुणस्थानकम् / एवं सासादने सासादनम् , मिथ्यात्वे मिथ्यात्वमिति / तथा 'संज्ञिषु' मनोविज्ञानयुक्तेषु चतुर्दश गुणस्थानकानि भवन्ति / नन्वत्र चतुर्दशगुणस्थानकभणनेन सामान्येन केवल्यपि संज्ञित्वेन गृहीतः, तत्र सयोगिनं प्रति संज्ञित्वभावना द्रव्यमनःसमाश्रयणेन भवद्भिः प्रागुक्ता अयोगिनं प्रति सा कथं बुध्यते ?, अत्रोच्यते, पूर्वावस्थामाश्रित्य द्रष्टव्येति संभाव्यते *यथा दृष्टिवादोपदेशिकी संज्ञा गृह्यते / तथा* 'असंज्ञिषु' मनोविज्ञानरहितेषु द्वे मिथ्यात्वसासादनलक्षणगुणस्थानके भवतः / इति गाथार्थः // 32 // ____ इति सम्यक्त्वद्वारे सप्रतिपक्षे संज्ञिद्वारे चोक्तानि गुणस्थानानि / अथ पर्यन्तवाहारकद्वारे सप्रतिपक्षे तानि प्रतिपादयन् गत्यादिषु गुणस्थानकसमर्थनां दर्शयन्नाह (मल०) वेदक-क्षायोपशमिकं तस्मिन् , तथा क्षायिके औपशमिके च सम्यक्त्वे यथासंख्यं चत्वारि एकादशाष्टौ च गुणस्थानकानि भवन्ति / कानि पुनस्तानि ? इत्यत आह'तुर्यादीनि' चतुर्थादीनि / तत्र क्षायोपशमिकसम्यक्त्वेऽविरतसम्यग्दृष्टयादीन्यप्रमत्तपर्यन्तानि चत्वारि गुणस्थानकानि भवन्ति, क्षायिके त्वविरतसम्यग्दृष्टयादीन्ययोगिपर्यन्तान्येकादश गुणस्थानकानि भवन्ति, औपशमिकसम्यक्त्वे पुनरविरतसम्यग्दृयादीन्युपशान्तमोहपर्यन्तान्यष्टाविति / 'सेसतिगे सहाणं' इति शेषत्रिके मिथ्यादृष्टिसासादनमिश्रलक्षणे स्वस्थानं स्वं स्वमेव गुणस्थानकं भवति / तथा संज्ञिषु चतुर्दशापि गुणस्थानकानि भवन्ति, सयोग्ययोग्यवस्थायामपि द्रव्यमनोऽपेक्षया संज्ञित्वाभ्युपगमात् / 'असपिणसु दो' इति असंज्ञिषु द्वे मिथ्यादृष्टिसासादनलक्षणे गुणस्थानके भवतः / तत्र सासादनसम्यग्दृष्टिगुणस्थानकं लब्धिपर्याप्तकानां करणापर्याप्तावस्थायां द्रष्टव्यम् // 32 // आहारगेसु पढमा तेरसऽणाहारगेसु पंच इमे / / पढमंतिमदुगअविरय इय गइयाईसु गुणठाणा // 33 // * एतचिह्नद्वयान्तर्गतपाठः प्रत्यन्तरे नास्ति / 1 "पठमंतदुगअविरया” इति वा।