________________ मार्गणास्थानेषु गुणस्थानकानि [ 201 (मल०) सामायिकच्छेदोपस्थापनयोश्चत्वारि प्रमत्तादीन्यनिवृत्तिवादरपर्यन्तानि गुणस्थानकानि भवन्ति / तथा परिहारविशुद्धिक संयमे द्वे प्रमत्ताप्रमत्तयतिलक्षणे गुणस्थानके भवतः, नोत्तराणिः तस्मिन संयमे वर्तमानस्य श्रेण्यारोहप्रतिषेधात् / 'देसमुहमे सग' इति देशविरतौ सूक्ष्मसंपरायसंयमे च स्व-स्वकीयं स्वकीयं यथाक्रमं देशविरतिगुणस्थानकं सूक्ष्मसंपरायगुणस्थानकं भवति / 'पढमचरमचउ अजयअहखाए' इति यथाक्रमं अयते असंयते-संयमहीने प्रथनानि मिथ्यादृष्ट यादीन्यविरतसम्यग्दृष्टिपर्यन्तानि चत्वारि गुणस्थानकानि भवन्ति / यथाख्यातचारित्रे पुनश्चरमाण्युपशान्तमोहादीन्ययोगिकेवलिपर्यन्तानि चत्वारि गुणस्थानानि भवन्ति // 30 // बारस अचक्खुचक्खुसु पढमा लेमासु तिसु छ दुसु सत्त। सुक्काएँ तेरस गुणा सव्वे भव्ये अभव्वेगं // 31 // __ (हारि०) व्याख्या- द्वादश प्रथमानि गुणस्थानकानीति योगः / क्क ? इत्याह-अचक्ष श्चक्षुषोः' 'अचक्षुर्दर्शने चक्षुर्दर्शने इत्यर्थः / तथा प्रथमानि मिथ्यादृष्टयादिगुणस्थानानि षडिति संबन्धः / कासु ? इत्याह-लश्यासु' तिसृषु कृष्णनीलकापोताभिधानासु / तथा सप्त प्रथमानि मिथ्यादृष्टयादीनि अप्रमत्तयत्यन्तानि / कयोः ? इत्याह-'दुसु' इति द्वयोर्लेश्ययोस्तैजसीपद्माभिधानयोः / तथा 'शुक्लास शुक्ललेश्यायां प्रथमानि त्रयोदश गुणस्थानानि / प्रथमशब्दश्चतुर्वपि पदेषु योज्यते / तथा भव्ये सर्वाणि गुणस्थानानि / तथाऽभव्ये एकं मिथ्यादृष्टिगुणस्थानकम् , अत्र जातावेकवचनम् / इति गाथार्थः / / 31 / / / इति दर्शनादिपदत्रये मागितानि गुणस्थानानि, साम्प्रतं सम्यक्त्वसंज्ञिपदद्वये तान्येवाह (मल०) अचक्षुर्दर्शने चक्षुर्दर्शने च प्रथमानि मिथ्यादृष्टयादीनि क्षीणमोहपर्यन्तानि द्वादश गुणस्थानकानि भवन्ति / भावना सुज्ञाना / तथा प्रथमासु तिसृषु 'लश्यामु' कृष्णनीलकापोतरूपासु प्रथमानि मिथ्यादृष्टयादीनि प्रमत्तान्तानि षड् गुणस्थानकानि भवन्ति / कृष्णनीलकापोतलेश्यानां हि प्रत्येकमसंख्येयलोकाकाशप्रदेशप्रमाणान्यध्यवसायस्थानानि, ततो मन्दसंक्लेशेषु तदध्यवसायस्थानेषु तथाविधसम्यक्त्वदेशसर्वविरतीनामपि सद्भावो न विरुध्यते / तदुक्तम्--सम्यक्त्वदेशविरतिसर्वविरतीनां प्रतिपत्तिका ने शुभलेश्यात्रयमेव भवति / उत्तरकालं तु सर्वा अपि लेश्याः परावर्तन्तेऽपीति / तथा 'द्वयोः' तेजःपद्मरूपयोलेश्ययोः सप्त गुणस्थानानि भवन्ति / तत्र षट् पूर्वोक्तान्येव सप्तमं त्वप्रमत्तसंयतगुणस्थानकम् मिथ्याष्टयादीनां त्वेते लेश्ये जघन्यात्यन्ताविशुद्धतदध्यवसायस्थानापेक्षया द्रष्टव्ये / एवमुत्तरत्रापि भावनीयम् / तथा शुक्लायां' शुक्ललेश्यायां प्रथमानि त्रयोदश गुणस्थानकानि भवन्ति, न त्वयोगिगुणस्थानकम्। अयोगिनो लेश्यातीतत्वात् / तथा भव्ये सर्वाण्यपि गुणस्थानकानि भवन्ति, योग्यत्वात् / अभव्ये पुनरेकमेव मिथ्यादृष्टिलक्षणं गुणस्थानकमिति / / 31 // 1 "चक्षुर्दर्शने-ऽचक्षुर्दर्शने चेत्यर्थः' इत्यपि पाठः /