________________ 208] षडशीतिनाम्नि चतुर्थे कर्मग्रन्थे न तथाविधो मतिज्ञानादिसंज्ञितः केवलज्ञानस्य प्रकाशो भवति, किन्तु सर्वात्मना यथावस्थितं वस्तु परिच्छिन्दम् परिस्फुटरूपोऽन्य एवेत्यदोषः / उक्तं च-"कविवरागय. किरणा मेहंतरियस्स जइ दिणेसस्स / ते कडमेहावगमे; न होति जह तह इमाइंपि // 1 // " इति / अन्ये पुनराहुः-सन्त्येव मतिज्ञानादीन्यपि सयोगिकेवल्यादौ, केवलमफलत्वात् सन्त्यपि तदानीं न विवक्ष्यन्ते यथा सूर्योदये नक्षत्रादीनीति / तथा चोक्तम्-"अण्णं आभिणियोहियणाणाईणि वि जिणस्स विजंति / अफलाणि सूरुदये, जहेव णक्खत्तमाईणि // 1 // " 'जयाइ सत्त मणनाणे' इति यतादीनि प्रमत्तयतिप्रमुखानि क्षीणमोहान्तानि सप्त गुणस्थानकानि मनःपर्यायज्ञाने भवन्ति न शेषाणि / भावना पूर्वोक्तानुसारेणावसेया / तथा 'केवलद्रिके केवलज्ञानदर्शनरूपे द्वे सयोग्ययोगिकेवलिलक्षणे गुणस्थानके भवतः / तथा 'अज्ञानत्रिक' मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानलक्षणे प्रथमानि त्रीणि मिथ्यादृष्टिसासादनमिश्रलक्षणानि गुणस्थानकानि भवन्ति / मिश्रदृष्टेश्च यद्यपि-'मीसंमि वा मिस्सं' इतिवचनात् , ज्ञानव्यामिश्राण्यज्ञानानि प्राप्यन्ते न शुद्धान्यज्ञानानि, तथाऽपि तान्यज्ञानान्येव, यथावस्थितवस्तुतत्वनिर्णयाभावात् / अन्ये पुनराहुः-यद्यपि न तदानीं यथावस्थितवस्तुतवानर्णयस्तथाऽपि न तान्यज्ञानान्येव, सम्यग्ज्ञानलेशव्यामिश्रत्वात् / 'तदुक्तम्-मिथ्यात्वाधिकस्य मिश्रदृष्टेरज्ञानबाहुल्यम् , सम्यक्त्वाधिकस्य पुनः सम्यग्ज्ञानबाहुल्यमित्यादि / तन्मतमाश्रित्याह-'दो व' इति द्वे वा प्रथमे मिथ्यादृष्टिसासादनलक्षणे गुणस्थानके भवतः / इति / / 29 / / सामाइयछेएसु, चउरो परिहार दो पमत्ताई / देससुहमे सगं पढमचरमचउ अजयअहखाए // 30 // __ (हारि०) व्याख्या-सामायिकच्छेदोपस्थापनीययोश्चत्वारि गुणस्थानानि विभक्तिलोपात्प्रमत्तादीनीति सण्टङ्कः। तथा परिहारविशुद्धिके द्वे प्रमत्ताप्रमत्ते / तथा 'देशसूक्ष्मे' अत्र द्वन्द्वः, स्वकमिति प्रत्येकं योज्यम् / देशे-देशविरते-चारित्राचारित्र इत्यर्थः, 'स्वक' स्वकीयं देशयति गुणस्थानकमित्यर्थः / तथा सूक्ष्मसंपराये च चतुर्थचारित्रे स्वकं स्वकीयं मूक्ष्मसंपरायाभिघगुणस्थानकमित्यर्थः / तथा प्रथमं च चरमं च प्रथमचरमे, *प्रथमचरमे च* ते 'चउ' इति चतुष्के च प्रथमचरमचतुष्के ते भवतः, अत्र प्रथमाद्विवचनलोपो द्रष्टव्यः / कयोः ? इत्याह-वचनव्यत्ययादयतयथाख्यातयोर्यथासंख्यम् / अयमभिप्रायः-अयनशब्देन गुणगुणिनोरभेदोपचारादसंयमो गृहीतः, ततोऽसंयमे प्रथमानि मिथ्यादृष्टिसासादनमिश्राविरतलक्षणानि चत्वारि गुणस्थानकानि भवन्ति / यथाख्याते तु संयमे चरमाण्युपशान्तक्षीणमोहसयोग्ययोगिकेयलिलक्षणानि चत्वारि गुणस्थानानि भवन्ति / इति गाथार्थः // 30 // इति संयमे सप्रतिपक्षे भणितानि गुणस्थानानि, साम्प्रतं दर्शनलेश्याभव्येषु तान्येवाह_*.तनिद्रयान्तर्गतमगो मप्रितौ नास्ति /