________________ [ 207 मार्गणास्थानेषु गुणस्थानकानि गज्ञानान्येव, अतोऽज्ञानत्रये द्वे एव गुणस्थानके भवतः / आहवं तर्हि सासादनस्यापि सम्यग्दृष्टित्वेन तदवबोधस्यापि ज्ञानरूपत्वात्कथमज्ञानत्रये सासादनगुणस्थानकसंभवः ? इति, सत्यमेतत् , नवरं तज्ज्ञानस्यानन्तानुवन्धिप्रथमकमायोदयेनातिपितत्वादज्ञानमेवेति भावः / इति गाथार्थः // 29 // एवं ज्ञानेषु सप्रतिपक्षेषु अवविदर्शने केवलदर्शने च तानि प्ररूपितानि गुणस्थानकानि, साम्प्रतं संयमे सामायिकादिपञ्चप्रकारे देशसंयमे च तानि प्रतिपिपादयिषुराह (मल०) मातेशाने श्रुतज्ञाने अवधिद्विक अवधिज्ञानदर्शनरूपे 'अयतादीनि अविरतसम्यग्दृष्टयादीनि क्षीगमोहान्तानि नव गुणस्थानकानि भवन्ति न शेपाणि / तथाहिं न मतितावधिज्ञानानि मिथ्यादृष्टिसासादन मिश्रेषु भवन्ति तद्भावे ज्ञानत्वस्येवायोगात् / यववधिदर्शनं तत्कुतश्विदभिप्रायाद्विशिष्टश्रुतविदो मिथ्या दृष्टयादीनां नेच्छन्ति / तन्मतमाश्रित्याचारेणापि तत्तेषां नेष्टम् / अथ च सूत्रो मिथ्यादृष्टयादीनामप्यवघिदर्शनं प्रतिपाद्यते / यदुक्तं प्राप्तौ-"ओहिदं." सणभणगारोवउत्ताणं भंते ? किं नाणी अन्नाणी? गायमा ! णाणीवि अन्नाणोवि / जह नाणो ते अत्थेगइआ तिपणाणी, अत्थंगइया चउणाणी। जे तिण्णाणी ते आभिणिवाहियणाणी सुयणाणी ओहिणाणी / जे चउणाणि ते आभिणिवाहियणाणी सयणाणी ओहिणाणी मणपन्जवणाणी जे अण्णाणी ते णियमा 'मइअ. पणाणी सयअण्णाणी विभंगनाणो" इति / अत्र हि येऽज्ञानिनस्ते मिथ्यादृष्टय एवेति मिथ्यादृष्टीनामप्यवधिदर्शनं साक्षादत्र सूत्रे प्रतिपादितम् , स एव च विभङ्गज्ञानी / यदा सासादनभावे मिश्रभावे वा वर्तते तदानीं तत्राप्यवधिदर्शनं प्राप्यत इति / यत्तु सयोग्ययोगिकेवलिगुणस्थानकद्विकं तत्र मतिज्ञानादि न संभवत्येव, तद्वयच्छेदेनैव केवलज्ञानस्य प्रादुर्भावात् / नटुंमि उ छाउमथिए नाणे" इतिवचनप्रामाण्यात् / आह, ननु यदि मतिज्ञानादीनि स्वस्वाधरणक्षयोपशमभावेऽपि प्रादुर्भवन्ति ततो निःशेषतः स्वस्वावरणक्षये सुतरां भवेयुश्चारित्रपरिणामवत्तत्कथं तदानीं तेषामभावः ? आह च-"आवरणदेसविगमे जाइं विज्जति मह. सुयाईणि / आवरणसव्वविगमे कह ताइँ न होति जीवस्स // 1 // " इति, उच्यते, इह - यथा सहनभानोरुपचितघनपटलान्तरितस्यापान्तरालावस्थितकटकुट्याद्यावरणविवरप्रविष्टः प्रकाशो घटपटादीन् प्रकाशयति, तथा केवलज्ञानावरणावृतस्य केवलज्ञानस्यापान्तरालमतिज्ञानाद्यावरणक्षयोपशमरूपविवरविनिर्गतः प्रकाशो जीवादीन् पदार्थान् प्रकाशयति, स च तथा प्रकाशयन् मतिज्ञानमित्यादिलक्षणं तत्तत्क्षयोपशमानुरूपमभिधानमुद्वहति / ततो यथा सकलपनपटलकटकुट्याद्यावरणापगमे स तथाविधः प्रकाशः सहस्रभानोरस्पष्टरूपो न भवति, किन्तु सर्वात्मना स्फुटरूपोऽन्य एव, तथेहापि सकलकेवलज्ञानावरणमतिज्ञानाद्यावरणक्षये 1 ति अन्नाणी, तं जहा।