________________ 206] ... षडशीतिनाम्नि चतुर्थे कर्मग्रन्थे इति काययोगवेदकपायेषु मार्गितानि गुणस्थानकानि, साम्प्रतं ज्ञानपञ्चकेऽज्ञानत्रयान्विते तथा लाघवार्थमवधिदर्शने केवलदर्शने च तान्येवाह___ (मल०) 'भूदगतरुषु' पृथिव्यम्बुवनस्पतिषु प्रत्येकं 'ब' मिथ्यादृष्टिसासादनलक्षणे गुणस्थानके भवतः, करणापर्याप्तावस्थायामेतेषु लब्धिपर्याप्तकेषु सासादनभावस्यापि लभ्यमानत्वात् / 'इगमगणिवाउसु' इति अग्निषु वायुषु चैकमेव मिथ्यादृष्टिलक्षणं गुणस्थानकं भवति, सासादनभावोपगतस्य तेषु मध्ये उत्पादाभावात् / 'चउदस तसेसु' इति त्रसेषु चतुर्दशापि गुणस्थानकानि भवन्ति, एकेन्द्रियवर्जितानां सर्वेषामपि त्रसत्वात् / तत्र च मनुष्यापेक्षया सर्वगुणस्थानकानामपि संभवात् / तथा 'यागे' मनोवाकायरूपेऽयोगिकेवलिगुणस्थानकवर्जितानि शेषाणि त्रयोदशापि गुणस्थानकानि भवन्ति सर्वेष्वप्येतेषु यथायोगं योगत्रयस्यापि संभवात् / तथा 'वेद' स्त्रीपुनपुसकलक्षणे, 'कषायत्रये क्रोधमानमायारूपे मिथ्यादृष्टयादीन्यनिवृत्तिबादरपयेन्तानि नव गुणस्थानकानि भवन्ति, न शेषाणि; अनिवृत्तिबादर एव क्षीणत्वेनोपशान्तत्वेन वा शेषेषु गुणस्थानकेषु तेषामसंभवात् / 'दस य लोभे' इति लोभे लोभकपाये दश गुणस्थानकानि भवन्ति / तत्र नव पूर्वोक्तान्येव, दशमं सूक्ष्मसंपरायगुणस्थानकम् , तत्र किट्टीकृतलोभदलिकस्य वेद्यमानत्वात् // 28 / / __ मइसुयओहिदुगे नव अजयाइ जयाइ सत्त मणनाणे / केवलदुगंमि दो तिन्नि दो व पढमा अनाणतिगे / / 29 / / (हारि०) व्याख्या-मतिश्रुतावधिद्विके, अत्र द्वन्द्वैकवद्भावः, तत्र मतिज्ञाने श्रुतज्ञाने अवधिज्ञाने अवधिदर्शने च प्रत्येक नव गुणस्थानानि भवन्तीति / अथ किमाहानि ? तान्याह'अजयाइ' इति विभक्तिलोपादयतादीन्यविरतिसम्यग्दृष्टिगुणस्थानकप्रभृतीनि क्षीणमोहान्तानि / तथा 'जयाइ सत्त मणनाणे' इति अत्रापि विभक्तिलोपाद्यतादीनि प्रमत्तयतिप्रमुखानि क्षीणमोहान्तानि सप्त गुणस्थानकानि मनापर्यवज्ञाने भवन्ति / तथा केवलद्विके' केवलज्ञानकेवलदर्शनरूपे '' सयोग्ययोग्याख्ये गुणस्थानके भवतः / तथा 'त्रीणि' प्रथमानि मिथ्यादृष्टिसासादनमिश्ररूपाणि, 'द वा प्रथमे' मिथ्यादृष्टिसासादनरूपे, क ? इत्याह'अज्ञानत्रिके' मत्यज्ञानश्रुताज्ञानविभङ्गलक्षणे / तत्र यदभिप्रायेण त्रीणि गुणस्थानानि भवन्ति, तेषामयमाशयः-यदुत मिश्रदृष्टेया॑मिश्रज्ञानान्यप्यज्ञानान्येव यथावस्थिततत्त्वनिर्णयाभावात् , अतस्त्रीण्यपि गुणस्थानान्यत्राज्ञानत्रिके भवन्तीति / यदभिप्रायेण च द्वे गुणस्थानके भवतः तेषामिदमाकूतम्-यदुत मिश्रदृष्टेः किंचित्सम्यग्रूपत्वात्तज्ज्ञानानि किंचित्कलुषाण्यपि सम्य 1 अत्र टीकायां "दो दो इगमगणिवाउसु” इति पाठान्तरानुसारेण व्याख्यातं ज्ञेयम् / . 2-3 "त्ति' इत्यपि पाठः /