________________ मार्गणास्थानेषु गुणस्थानकानि [205 (हारि०) व्याख्या-'चत्वारि' मिथ्यादृष्टयादीनि गुणस्थानकानीति गम्यते / क्व ? इत्याह-देवनारकेषु प्रत्येकं भवन्तीति शेषः / तथा पश्च तिर्यश्वाधान्येव / तथा चतुर्दश नरेषु / इति मार्गितानि गतिषु गुणस्थानकानि, साम्प्रतमिन्द्रियेषु तान्याह-'इगिविगलेसु' इति एकेन्द्रियविकलेन्द्रियेषु द्वे द्वे गुणस्थानके मिथ्यादृष्टिसासादनलक्षणे भवतः / एकेन्द्रियेषु सासादनं प्राग्वत् / तथा पञ्चेन्द्रियेषु चतुर्दशापि गुणस्थानकानि भवन्ति / इति गाथार्थः // 27|| इत्युक्तानि गुणस्थानकानीन्द्रियेषु, इतः कायादिषु चतुर्यु मार्गणास्थानेषु तान्येवाह (मल०) देवेषु नारकेषु च प्रत्येकमाद्यानि मिथ्यादृष्टयादीन्यविरतसम्यग्दृष्टिपर्यन्तानि चत्वारि गुणस्थानकानि भवन्ति न देशविरतादीनि, तेषु भवस्वभावतो देशतोऽपि विरतेरभावात् / ‘पञ्च तिरिसु' इति तिर्यनु पञ्च गुणस्थानकानि भवन्ति, तत्र चत्वारि पूर्वोक्तान्येव, पञ्चमं तु देश विरतिगुणस्थानकम् , तेषु देशविरतेः सद्भावात् / तथा 'नरेषु मनुष्येषु चतुर्दशापि गुणस्थानकानि भवन्ति, तेषु मिथ्यात्वादीनां शैलेश्यवस्थापर्यन्तानां सर्वभावानामपि संभवात् / तथेकेन्द्रियविकलेद्रियेषु प्रत्येकं 'द्वे द्वे' मिथ्या दृष्टिसासादनलक्षणे गुणस्थानके भवतः / तत्र मिथ्यादृष्टिगुणस्थानकमविशेषेण सर्वेषु द्रष्टव्यम् / सासादनसम्यग्दृष्टिगुणस्थानक पुनस्तेजोवायुवर्जप्रत्येकवादरैकेन्द्रियद्वित्रिचतुरिन्द्रियेषु लब्ध्या पर्याप्तेषु करणेन त्वपर्याप्तेषु न सर्वेष्विति / 'पंचिंदीसुचउद्दस वि' इति पञ्चेन्द्रियेषु चतुर्दशापि गुणस्थानकानि भवन्ति / तत्रासंज्ञिपञ्चेन्द्रिथेषु द्वे मिथ्यादृष्टिसासादनसम्यग्दृष्टिलक्षणे गुणस्थानके प्राप्येते, तेषु लब्ध्या पर्याप्तेसु करणेन त्वपर्याप्तकेषु सासादनमावस्यापि लभ्यमानत्वात् / लब्ध्यपर्याप्तेषु तु तेषु मिथ्यादृष्टिलक्षणमेकं गुणस्थानकम् / संज्ञिपञ्चेन्द्रियेषु पुनरपर्याप्तकेषु त्रीणि गुणस्थानकानि, तत्र 'द्वे' पूर्वोक्ते एव, तृतीयं त्वविरतिसम्यग्दृष्टिगुणस्थानकम् / एतेष्वेव च करण. पर्याप्तकेषु सर्वाण्यपि गुणस्थानकानि भवन्ति, मनुष्येषु सर्वभावसंभवात् / / 27 / / भूदगतरूसु दो एगमगणिवाऊसु चउदस तसेसु। जोए तेरस वेए तिकसाए नव दस य लोभे // 28 // (हारि०) व्याख्या-'भूदगतरूसु' भूम्यम्बुवनस्पतिकायिकेषु 'हे' प्रथमे गुणस्थानके प्रत्येकं भवतः / तथा 'एक' आद्यं गुणस्थानकमनिवायुकायिकेषु, सासादनभावान्वितस्य तेष्वनुत्पादात् / तथा चतुर्दश वसेषु / तथा 'जोए' इति योगत्रये मनोवाकायलक्षणे त्रयोदश गुणस्थानान्यन्त्यगुणस्थानकवर्जितानि, चतुदेशगुणस्थानके तु योगानामभावात् / तथा नवशब्दस्य प्रत्येकमभिसंबन्धात् , 'वेदत्रये स्त्रीपुनपुंसकलक्षणे नव गुणस्थानानि, 'कषायत्रये' क्रोधमानमायालक्षणे नववाद्यानि, तथा दश चाऽऽद्यान्येव लोभे भवन्ति / इति गाथार्थः // 28 //