SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ 204 ] षडशीतिनाम्नि चतुर्थ कर्मग्रन्थे यति / यानि पुनरुदयवन्ति तदानीं न सन्ति तानि वेद्यमानासु प्रकृतिषु स्तिबुकसंक्रमेण संक्रमयन वेद्यमानप्रकृतिरूपतया च वेदयन् तावद्याति यावदयोग्यवस्थाद्विचरमसमयः तस्मिश्च द्विचग्मसमये देवगति 1 देवानुपूर्वी 2 शरीरपञ्चक 7 बन्धनपश्चक 12 संघातपश्चक 17 संस्थानपञ्चका 23 ऽङ्गोपाङ्गत्रय 26 संहननषट्क 32 वर्गादिविंशति 52 पराघातो 53 पघाता 54 ऽगुरुलघू 55 छ्वास 56 प्रशस्ता ५७.ऽप्रशस्त 58 विहायोगति स्थिरा 56 ऽस्थिर 60 शुभा 61 ऽशुभ 62 सुस्वर 63 दुःस्वर 64 दुर्भग 65 प्रत्येका 66 ऽनादेया 67 ऽयशःकीर्ति 68 निर्माणा : ऽपर्याप्तक 70 नीचेगोत्रा 71 ऽसातासातान्यतरा 72 नुदितवेदनीयानि द्विसप्ततिसंख्यानि स्वरूपसत्तामधिकृत्य क्षयमुपगच्छन्ति / चरमसमये तेषां सर्वात्मना स्तिबुकसंक्रमेणोदयवतीषु प्रकृतिषु मध्ये संक्रमयिष्यमाणतया न स्वरूपसत्ता संभवति / संक्रमश्च सर्वोऽप्युक्तस्वरूपो मूलप्रकृत्यभिन्नासुपरप्रकृतिषुद्रष्टव्यः / मूलप्रकृत्यभिन्नाः संक्रमयति गुणत उत्तरा: प्रकृतीः' इतिवचनात् / चरमसमये सातासातान्यतरोदितवेदनीय 1 मनुष्यगति-२ मनुष्यानुपूर्वी 3 मनुष्यायुः 4 पञ्वेन्द्रियजाति 5 त्रस 6 सुभगा 7 ऽऽदेय 8 यशःकीर्ति 9 पर्याप्तक 10 वादर 11 तीर्थकरो 12 च्चैगोत्राणां 13 त्रयोदशप्रकृतीनां सत्ताव्यवच्छेदः / अन्ये पुनराहुःमनुष्यानुपूर्व्या द्विचरमसमये व्यवच्छेदः, उदयाभावात् / उदयवतीनां हि स्तियुकसंक्रमाभावात्स्वरूपेण चरमसमये दलिकं दृश्यत एवेति युक्तस्तासां चरमसमये सत्ताव्यवच्छेदः / आनुपूर्वीनाम्नां तु चतुर्णामपि क्षेत्रविपाकतया भवापान्तरालगतावेवोदयस्तेन न भवस्थस्य तदुदयसंभवः / तदसंभवाचायोग्यवस्थाद्विचरमसमय एव मनुष्यानुपूाः सताव्यवच्छेद इति / तन्मतेन द्विचरमसमये त्रिसप्ततिप्रकृतीनां सत्ताव्यवच्छेदः, चरमसमये द्वादशानामिति / ततोऽनन्तरसमये कोशबन्धविमोक्षलक्षणसहकारिसमुत्थस्वभावविशेषादेरण्डफलमित्र भगवानपि कर्मसंबन्धविमोक्षलक्षणसहकारिसमुत्थस्वभावविशेषसंभवादूचं गच्छति / स चोर्ध्वं गच्छन् ऋजुश्रेण्या यावत्स्वाकाशप्रदेशेष्विहावगाढस्तावत एव प्रदेशान् ऊर्ध्वमप्यवगाहमानो विवक्षितसमयाचान्यत्समयान्तरमस्पृशन लोकान्ते गच्छति / तदुक्तमावश्यक वर्गौ-जेत्तिए जोवोऽवगाहो तावड्याए ओगाहणाए उडढं उजगं गच्छद न वंक विड्यं समयं च न फुसए" इति / तत्र गतः सन् भगवान् शाश्वतं कालमवतिष्ठते / इति / / 26 / / तदेवमुक्तानि प्रसक्तानुप्रसक्तप्रतिपादनेन सप्रपञ्च गुणस्थानकानि / साम्प्रतमेतानि मार्गणास्थानेषु चिन्तयन्नाह चत्तारि देवनरएसु पंच तिरिपसु चउदस नरेखें। इगिविगलेसु दो दो पंचिंदीसु चउद्दस वि // 27 //
SR No.004404
Book TitleKarmgranth tatha Sukshmarth Vicharsar Prakaran
Original Sutra AuthorN/A
AuthorVeershekharvijay
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1974
Total Pages716
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy