SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ गुणस्थानकानि तस्मिश्च द्विचरमसमये निद्राद्विकं स्तिबुकसंक्रमेणान्यत्र संक्रमयति / एवं निद्राद्विकं स्वरूप-सत्ताऽपेक्षया क्षीणम् / चतुर्दशानां च प्रकृतीनां चरमसमये क्षयः / ततोऽनन्तरसमये केवली जायत इति / / 'सयोगिकेवलिगुणस्थानम्' इति योगो वीर्य परिस्पन्द इत्यनन्तरम् सह योगेन वर्तन्ते ये ते सयोगा मनोवाकायाः ते यस्य विद्यन्त इति सयोगी। तत्र भगवतः काययोगश्चक्रमणनिमेषोन्मेषादिः, वाचिको देशनादिः, मानसिको मनःपर्यायज्ञानिभिरनुत्तरसुरादिभिर्वा पृष्टस्य सतो मनसैच देशनात् / ते हि भगव प्रयुक्तानि मनोद्रव्याणि मनःपर्यायज्ञानेनावधिज्ञानेन च पश्यन्ति, दृष्ट्वा च ते विवक्षि.वस्त्वालोचनाकारान्यथाऽनुपपत्त्याऽलोकस्वरूपादिकमपि बाह्यमर्थं पृष्टमवगच्छन्तीति / केवलं ज्ञानं दर्शनं चोक्तस्वरूपं विद्यते यस्य स केवली, सयोगी चासौ केवली च सयोगिकेवली तस्य गुणस्थानं सयोगिकेवलिगुणस्थानम् / सयोगिकेवली च 'जघन्येनान्तमुहर्तम् , उत्कर्षतो देशोनां पूर्वकोटी विहत्य कश्चित् कर्मणां समीकरणाथं समुद्घातं गच्छति, यस्य वेदनीयादिकमायुषः सकाशादधिकतरम् / अन्यस्तु न गच्छत्येव / गत्वा चागत्वा च समुद्घातमघातिकर्मक्षपणाय लेश्यातीतमत्यन्ताप्रकम्पं परमनिर्जराकारणं ध्यानं प्रतिपित्सुयोगनिरोधायोपक्रमत एव / तत्र पूर्व बादरकाययोगेन बादरमनोयोगं निरुणद्धि, ततो वाग्योगम् , ततः सूक्ष्मकाययोगेन बादरकाययोगम् , ततस्तेनैव सूक्ष्ममनोयोगम् , ततः मूक्ष्मवाग्योगम् , ततः सूक्ष्मकाययोगं निरुन्धानः सूक्ष्म क्रियाप्रतिपातिध्यानमारोहति / तत्सामर्थ्याच वदनोदरादिविवरपूरणेन संकुचितदेहविभागवर्तिप्रदेशो भवति / योगनिरोधश्चेष विस्तरतरफेणास्माभिव हद्धर्मसारटीकायामभिहित इति नेह पुनः प्रतायते / तस्मिश्च ध्याने वर्तमानः स्थितिघातादिभिरायुर्वजानि सोण्यपि अघातिकर्माणि तावदपवर्तयति यावत्सयोग्यवस्थाचरमसमयः तस्मिंश्च चरमसमये सर्वाण्यपि कर्माण्ययोग्यवस्थासमस्थितिकानि जातानि / येषां च कर्मणामयोग्यवस्थायामुदयाभावः तेषां स्थितिं च स्वरूपं प्रतीत्य समयोनां विधत्ते / सामान्यतः सत्ताकालं त्याश्रित्यायोग्यवस्थासमानामेव / तस्मिश्च सयोग्यवस्थाचरमसमये औदारिक 1 तैजस 2 कार्मणशरीर 3 संस्थानपट्क / प्रथमसंहननौ 10 दारिकाङ्गोपाङ्ग 11 वर्णादिच. तुष्का 15 ऽगुरुलघू 16 पघात 17 पराघात 18 शुभाशुभविहायोगति 16 20 प्रत्येक 21 स्थिरा 22 ऽस्थिर 23 शुभा 24 ऽशुभ 25 निर्माण 26 नाम्नामुदयोदीरणाव्यवच्छेदः, अन्यतरवेदनीयस्य 27 च उच्छ्वास 28 सुस्वर 26 दुःस्वराणां 30 च ततोऽनन्तरसमयेऽयोगिकेवली भवति / / 'अयोगिकेवलिगुणस्थानकम्' इति योगः पूर्वोक्तो विद्यते यस्यासौ योगी, न योगी अयोगी. अयोगी चासौ केवली चायोगिकेवली, तम्य गुणस्थानं अयोगिकेवलिगुगस्थानम् / तस्मिश्च वर्तमानः कर्मक्षपणाय व्युपरतक्रियमप्रतिपातिध्यानमारोहति / एवमसावयोगिकेवली स्थितिघातादिरहितो यान्युदयवन्ति कर्माणि तानि स्थितिक्षयेणानुभवन् क्षप
SR No.004404
Book TitleKarmgranth tatha Sukshmarth Vicharsar Prakaran
Original Sutra AuthorN/A
AuthorVeershekharvijay
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1974
Total Pages716
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy